________________
[ ४६७
मार्गणास्वायुपोऽल्पतरा ऽवक्तव्य० ] भूयस्काराधिकारेऽन्तरद्वारम् मूले साधिकभवस्थितिप्रमाणप्रस्तुतान्तरतयाभिहितम् । कथम् ? आयुबन्धेन सममेव तयोरवक्तव्याल्पतरस्थितिबन्धयोरपि नियमतो भावात् । अत्र हि भवस्थितिरुत्कृष्टा ज्ञेया, उत्कृष्टान्तरस्य प्रस्तुतत्वादिति ।।५९१।। अथाऽन्यत्राह
कायम्मि भूभवठिई देमूणतिभागसंजुया जेट्ठा।। उरलेऽभहियाणि गुरु सत्तसहस्साणि वासाणि ॥५९२॥
(प्रे०) “कायम्मि” इत्यादि, काययोगौघमार्गणायामायुपोऽल्पतराऽवक्तव्यस्थितिबन्धयोः प्रत्येकमुत्कृष्ट मन्तरं "भूभवठिई" ति भूवः-पथिवीकायिकस्य भवस्थिति भवस्थितिः, अस्य चान्वयः परेण “जेठा" इत्यनेन; ततश्च पृथिवीकायस्योत्कृष्टा भवस्थितिरित्यर्थः । प्रस्तुतान्तरस्य पृथिवीकायोत्कृष्टभवस्थितितोऽप्यधिकसम्भवात्पृथिवीकायोत्कृष्टभवस्थितिं विशिनष्टि-"देसूणतिभागसंजुया' ति देशोनेन स्वीयतृतीयभागेन 'संयुता'-अभ्यधिका इत्यर्थः ।
इदमुक्तं भवति-निरन्तरकाययोगिन उत्कृष्ट भवस्थितिका जीवाः पृथिवीकायिका एव सन्ति, अतः पूर्वोक्तन्यायेनोत्कृष्टस्थितिकयोनिरन्तयोर्द्वयोर्भवयोः, क्रमेणोत्कृष्टाबाधायां जघन्याबाधायां च जायमानायुर्वन्धयस्यान्तरालमपेक्ष्य काययोगमार्गणायामायुपोऽल्पतराऽवक्तव्यस्थितिबन्धयोः प्रत्येकमुत्कृष्टान्तरमन्तमुहूर्तलक्षणेनैकदेशेनोनस्वतृतीयभागेनाभ्यधिका पृथिवीकायस्योत्कृष्टभवस्थितिः सम्पद्यते, अतस्तथैवोक्तमिति ।
__ "उरले" त्ति औदारिककाययोगमार्गणायामायुपः प्रस्तुतस्थितिबन्धद्वयस्य प्रत्येकं 'गुरु'उत्कृष्टमन्तरमभ्यधिकानि-साधिकानि सप्तसहस्रवर्षाणि भवतीत्यर्थः । इदमप्यनन्तरोक्तपथिवीकायोत्कृष्टभवस्थितिमपेक्ष्यैव भावनीयम् ,नवरं द्वितीयवारमायुर्वन्धोऽपि प्रथमभव एव जघन्यावाधायां द्वितीयाऽऽकर्षण द्रष्टव्यः न पुनस्तदनन्तरभवे । कुतः ? तत्रोत्पच्याऽपर्याप्तावस्थायां प्रस्तुतौदारिककाययोगमार्गणाया विच्छेदप्रसंगात् । इत्थं हि पथिवीकायस्योत्कृष्टभवस्थितिाविंशतिवर्षसहस्राणि, तस्यास्तृतीयभागेऽवशेषयुत्कृष्टाबाधायां प्रथमवारमायुबन्धादृवं द्वितीयवारं भवचरमान्तमुहूर्त आयुर्वन्धकरणेऽधिकृतान्तरं लभ्यते, आयुर्वन्धेन सममेव तदीयावक्तव्याल्पतरस्थितिवन्धयोरपि नियमेन भावादिति ॥५९२।। औदारिकमिश्रकाययोग-स्त्रीवेदयोः प्रस्तुतान्तरमाह
ओरालियमीसम्मि उ भिन्नमुहत्तं हवेज्ज उक्कोसं । अब्भहिया पणपण्णा पलिया थीए गुरु णेयं ॥५९३॥ (प्रे०) "ओरालियमीसम्मि उ” इत्यादि, औदारिकमिश्रकाययोगमार्गणायां तु 'भिन्नमुहूर्तम्'-अन्तमुहूर्त भवेत् । किमित्याह-“उक्कोस" ति आयुषो द्विविधस्थितिबन्धयोः प्रत्येकमुत्कृष्टान्तरम् । सुगमं चैतत् , अपर्याप्तजीवानां निरन्तरे भवद्वये जायमानायुर्वन्धद्वयमपेक्ष्य तल्लामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org