________________
४६६ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुषोऽल्पतरा-ऽवक्तव्यः सव्वणिरयदेवेसु पसत्थअपसत्थलेसासु॥५९०॥ (प्रे०) "सेसासु मुहुरांतो” इत्यादि, अनन्तरोक्तमनोयोगाद्यष्टादशमार्गणा विहाय शेषासु यास्वायुर्वन्धो भवति, तासु निरयगत्योघादिपञ्चचत्वारिंशदभ्यधिकशतमार्गणासु प्रत्येकं "मुहुत्तंतो हस्सं" ति आयुषोऽल्पतरस्थितिबन्धस्याऽवक्तव्यस्थितिबन्धस्य च प्रत्येकं 'ह्रस्वं' जघन्यमन्तरं 'मुहूर्तान्त:'-अन्तर्मुहूर्तं भवतीत्यर्थः । सुगमम् । भावना तु सर्वथैवोघवद् द्रष्टव्येति । एतास्वेव पञ्चचत्वारिंशदभ्यधिकशतसंख्याकासु शेषमार्गणामूत्कृष्टान्तरं दर्शयन्नाह-“परमं हवेज्जे" त्यादि, आयुषोऽधिकृतद्विविधस्थितिबन्धस्य प्रत्येकं 'परमम्'-उत्कृष्टमन्तरं षण्मासा भवेत् । कास मार्गणास्वित्याह-"सव्वणिरये" त्यादि, सर्वशब्दस्य प्रत्येकं योजनात् सर्वेषु नरकगतिमार्गणाभेदेषु, सर्वेषु देवगतिमार्गणाभेदेषु, षटषु प्रशस्ता-ऽप्रशस्तलेश्यामार्गणासु प्रत्येकमित्यर्थः । कुतः ? उच्यते, निरयदेवानां वेद्यमानायुषो मासपटकेऽनवशेषे परभवायुर्वन्धो न भवति, तथा च सति प्रथमाकर्षण षण्मासात्मिकायामुत्कृष्टाबाधायां प्रथमवारमायुर्वन्धं कृत्वा द्वितीयाकर्षण जघन्याबाधायां भवचरमान्तमुहर्ते पुनरप्यायुर्बन्धभाव उत्कृष्टान्तरं लभ्यते, यद्यप्येवं प्रकृतान्तरं देशोनषण्मासप्रमाणं भवति, मूले च पण्मासा इत्यभिहितम् , तथाऽपि सूत्रस्य सूचकत्वाददोषायेति । शेषकृष्णलेश्यादिषण्मार्गणास्वपि प्रस्तुतान्तरं देवनिरयसत्कप्रस्तुतान्तरानुसारेणैव भावनीयमिति ॥५९०॥
अथ मार्गणान्तरेषु प्रस्तुतान्तरमाहपरमं सव्व-तिरिय-णर-एगिदिय-विगल-पंचकाये।
असमत्तपणिदितसेसु साहिया भवठिई णेयं ॥५९१॥ (प्रे०) “परमं सव्वतिरिय” इत्यादि, आयुपोऽल्पतराऽवक्तव्यस्थितिबन्धयोः 'परमम्'उत्कृष्टमन्तरं, साधिका भवस्थितियमिति गाथा प्रान्तेऽन्वयः । कास मार्गणास्वित्याह-"सव्वतिरिये" त्यादि, सर्वशब्दस्य प्रत्येकं योजनात सर्वे तिर्यग्गतिभेदाः, सर्वे "णर" त्ति मनुष्यगतिभेदाः, सर्व एकेन्द्रियजातिभेदाः, सर्वे विकलेन्द्रियजातिभेदाः, सर्वे पृथिव्यादिवनस्पतिकायान्तपञ्चकायमार्गणासत्का भेदास्तेषु चतुःषष्टिमार्गणाभेदेषु, तथा "असमत्त” इत्यादि, अत्राप्यसमाप्तशब्दस्य प्रत्येक योजनादपर्याप्तपञ्चेन्द्रियमार्गणायामपर्याप्तत्रसकायमार्गणायां च प्रत्येकमित्यर्थः । कुत आसु साधिकभवस्थितिः प्रस्तुतान्तरम् ? आसां मार्गणानां प्रत्येकं नानाभवावस्थायित्वात् ।
किमुक्तं भवति ? पूर्वोक्तमार्गणाः प्रत्येकं भववयेऽवस्थायिन्यो नासन् ,अतस्तास्वेकस्मिन् भव एवाकर्षद्वयेन वारद्वयमायुपन्धं कुर्वन्तं जीवमपेक्ष्याऽन्तरमानीतम् , प्रकृतमार्गणास्तु नानाभवावस्थायिन्यः, प्रतिभवमेकवारं तु नियमेनायुबन्धो जायते, स चोत्कृष्टस्थितिक एकस्मिन् भवे यदा उत्कृष्टाबाधायां, तादृशे च तदनन्तरभवे जघन्यावाधायामित्येवं द्विः क्रियते तदाऽऽयुर्वन्धस्योत्कृष्टान्तरं लभ्यते, तच्च प्रथमभवसत्कतृतीयभागाभ्यधिकान्तमुहूतोनद्वितीयभवप्रमाणं, तदेव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org