________________
मार्गणास्वायुषोऽल्पतराऽवक्तव्य० ] भूयस्काराधिकारेऽन्तरद्वारम्
[ ४६५ ___(प्रे०) "देसूणऽडपरटो” इत्यादि, सप्तानां प्रकृतीनामवक्तव्यस्थितिबन्धस्य, उत्कृष्टान्तरमिति गम्यते । कियदित्याह-“देसूणऽडपरटो” ति ओघवद् देशोनार्धपुद्गलपरावर्त इत्यर्थः । कस्यां कस्यां मार्गणायामित्याह-"अणयणभवियेसु” त्ति अचक्षुर्दर्शनमार्गणायां भव्यमार्गणायां चेत्यर्थः । भावनाप्यत्र सप्तप्रकृतीनामवक्तव्यस्थितिबन्धस्यौधिकोत्कृष्टान्तरवद् द्रष्टव्येति । अथ शेषमार्गणास्वाह-"गुरु अण्णहे" त्यादि, उक्तमनोयोगोदिमार्गणाभ्योऽन्यत्र, पञ्चेन्द्रियोघादिशेषपञ्चदशमार्गणास्वित्यर्थः । "गुरु" ति आयुर्वर्जसप्तमूलप्रकृतीनामेकजीवाश्रयं 'गुरु'उत्कृष्टमन्तरम् "ऊणगुरुकायठिई" ति ऊनाऽन्तमुहूर्तादिलक्षणेनैकदेशेन 'गुरुः' उत्कृष्टा, एकजीवाश्रयान्तरस्य प्रकृतत्वादेकाजीवाश्रया तत्तन्मार्गणानां कायस्थितिर्भवति । तत्र कायस्थितौ न्यूनत्वविशेषणोपादानं प्रागिव कायस्थितिप्रारम्भप्रान्तयोरवक्तव्यस्थितिवन्धादिसत्ककियत्कालस्य प्रस्तुतान्तरवाह्यत्वात्तावत्कालस्य प्रस्तुतान्तरतया प्रतिषेधार्थम् । शेषमार्गणा नामत इमा:-पञ्चेन्द्रियोघपर्याप्तपञ्चेन्द्रिय-त्रसकायोध-पर्याप्तत्रसकाय-मत्यादिज्ञानचतुष्क--चक्षुर्दर्शन-संयमौघ-सम्यक्त्वोधक्षायिकसम्यक्त्व-संश्या-ऽऽहारिमार्गणा इति । कायस्थितयस्तु तासां द्वितीयाधिकार एकजीवाअयकालद्वारे 'कायठिई उकोसा' इत्यादि-(१५२) गाथाकदम्बकेनाभिहिता अतस्तत एव द्रष्टव्याः, भावनाऽप्येतासु कायस्थितेः प्रारम्भप्रान्तसमासन्नभाव्युपशमश्रेणिद्वयानुसारेण प्राग्वत्कार्येति ॥५८८॥
तदेवमुक्तं सप्तप्रकृतीनां भूयस्कारादिचतुर्विधवन्धस्यान्तरमादेशतोऽपि । साम्प्रतमायुषोऽल्पतरा-ऽवक्तव्यद्विविधस्थितिवन्धयोरन्तरमादेशतो विभणिपुराह
पणमणवयेसुविउवे आहारदुगे कसायचउगे य । सासाणे य पयाणं दोण्हा-ऽऽउस्संतरं णत्थि ॥५८९॥ (प्रे०) “पणमणवयेमु” इत्यादि, पञ्चशब्दस्य प्रत्येकं योजनात् पञ्चमनोयोगमार्गणाभेदेषु, पश्चवचोयोगमार्गणाभेदेषु, वैक्रियकाययोगे, आहारककाययोगा--ऽऽहारकमिश्रकाययोगमार्गणाद्वयरूप आहारकद्विके, क्रोधादिकषायचतुष्के, चः समुच्चये, सासादनसम्यक्त्वमार्गणायाम् ,
चः प्राग्वत् । एतास्वष्टादशमार्गणासु प्रत्येकम् 'आयुषः'-शेषस्यायुःकर्मणः “पयाण दोण्ह" त्ति । अल्पतरावक्तव्यस्थितिबन्धरूपयोर्द्वयोः पदयोः प्रत्येकमन्तरं नास्ति, अन्तरं न विद्यत इत्यर्थः । कुतः ? अल्पकालावस्थायिनीष्वेतासु प्रत्येकं वारद्वयमायुर्वन्धाभावात् । इदमुक्तं भवति-आयुषोऽल्पतरादिस्थितिबन्धस्यान्तरं द्विरायुर्वन्धे सति लभ्यते, एतच्चौधिकभावनायां दर्शितमेव, एता मार्गणास्तु प्रत्येकं स्वल्पकालावस्थायिन्य; अतस्ता द्वितीयायुबन्धादांगेव विच्छेदमियर्ति, तत्कुतस्त द्वन्धद्वयाधीनमन्तरमपि लभ्येत, न कुतश्चिदित्यर्थः ।।५८९॥ शेषमार्गणास्वायुषोऽल्पतरावक्तव्यद्विविधस्थितिबन्धान्तरं दिदर्शयिषुर्जधन्यादिक्रमेणाह
सेसासु मुहुत्तंतो हस्सं परमं हवेज्ज छम्मासं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org