________________
४६४ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्थायुर्वर्जानामवक्तव्य० तदेवं मनोयोगादिमार्गणासु सप्तानामवक्तव्यस्थितिबन्धान्तरे निपद्धे तदन्यमार्गणासु तद्विद्यत इत्यर्थाद्गम्यते, नपुनस्तत्त्रमाणमपि, अतः शेषासु तत्कियत्प्रमाणमिति जिज्ञासायामादौ तावजघन्यत आह
सेसासु मुहुत्तंतोऽवत्तव्वस्स हवए कणि उ । - (०) “सेसासु” इत्यादि, यासु सप्तानामवक्तव्यस्थितिबन्धो सन् , ताभ्यः षट्त्रिंशन्मार्गणाभ्योऽनन्तरोता मनोयोगादिषोडशमार्गणास्त्वक्त्वा शेगास विंशतिमार्गणास प्रत्येकं सप्तप्रकृतिनामवक्तव्यस्थितिबन्धस्य 'कनिष्ठं-जघन्यमन्तरं तु 'मुहुत्तंतो' त्ति अन्तर्मुहूर्त भवति । तच्चैवम्उपशमश्रेणौ सप्तानामववक्तव्यस्थितिबन्धं कृत्वा पश्चात् प्रमत्ताप्रमत्तभावं स्पृष्टवा पुनरप्युपशमश्रेणिनारुह्य यावद्वितीयवारं सप्तानामवक्तव्यस्थितिबन्धस्तावदपि प्रस्तुतशेषसर्वमार्गणा अविच्छेदेन प्रवर्तन्ते, एवं सत्यवक्तव्यस्थितिबन्धस्यान्तरालमपि प्रकृतमार्गणास्वेव सम्पद्यते, तच्चान्तमुहूमिति तथैवोक्तम्, अत्र विस्तरभावना तु सप्तानामवक्तव्यस्थितिबन्धस्यौधिकजघन्यान्तरानुसारेण द्रष्टव्येति ।। अथैतास्वेव शेषमार्गणासु सप्तानामवक्तव्यस्थितिबन्धान्तरमुत्कृष्टत आह
तिणरेसु उक्कोसं कोडिपुहुत्तं उ पुब्वाणं ॥५८७॥ (प्रे०) "तिणरेसु” ति अपर्याप्तमनुष्यमार्गणायां सप्तप्रकृतीनामवक्तव्यस्थितिबन्धस्यैवामावातदन्तरस्यापि नास्ति चिन्ता, अतस्तामपर्याप्तमनुष्यमार्गणां विहाय शेषासु त्रिसृषु ‘णरेसु' त्ति मनुष्यगत्योध-पर्याप्तमनुष्य-मानुषीलक्षणासु नरमार्गणासु “उक्कोसं” त्ति सप्तप्रकृतीसत्कावक्तव्यबन्धस्योत्कृष्टमन्तरं “कोडिपुहुत्तं उ पुव्वाण' ति पूर्वकोटिपृथक्त्ववर्षप्रमाणमित्यर्थः ।
अयम्भावः-एतासां त्रिसृणां मार्गणानां प्रत्येकमेकजीवाश्रितोत्कृष्टा कायस्थितिः'तिपणिंदियरियाणं तिणराणं य पलिओवमा तिण्णि । अब्भहिया पुवाणं कोडिपुहुत्तेण णायव्या' ॥१५५।। इत्यनेन प्राक् पूर्वकोटीपृथक्त्वाधिकत्रिपल्योपमप्रमाणाऽभिहिता, तत्रापि त्रीणि पल्योपमानि तु मार्गणाविच्छेदादर्वाग्भाविचरमयुग्मिभवमपेक्ष्य प्राप्यन्ते, अतस्तान्यत्र वय॑न्ते । कुतः ? तस्मिन् युग्मिभव उपशमश्रेणेरसम्भवात्,तदनन्तरभवे तु जीवानां प्रकृतमार्गणातो बहिर्भावात् तथा च त्रिपल्योपमकालेनोना शेषा कायस्थितिरत्र गृहीता । कस्मात् ? तस्यां संख्येयवर्षायुष्कनानाभवनिष्पनायां शेषायां कायस्थितो प्रारम्भे प्रान्ते चाऽष्टवादिकालं त्यक्त्वोपशमश्रेणेः सम्भवात् । तत्रोपशमश्रेणाववक्तव्यबन्धौ तु प्रागवद् द्रष्टव्यौ,तयोरन्तरालमपेक्ष्यान्तरमपि च प्राग्वद्भावनीयम् । एवमग्रऽपि द्रष्टव्यमिति ।।५८७।। अथ शेषमार्गणास प्रकृतोत्कृष्टान्तरं दर्शयति
देसूणऽद्धपरट्टोऽवत्तव्वस्स हवए उ सत्तण्हं । अणयण-भवियेसु गुरु, अण्णह ऊणगुरुकायठिई ॥५८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org