________________
मार्गणास्वायुर्जानामवक्तव्य० ] भूयस्काराधिकारे ऽन्तरद्वारम्
[ ४६३
भवतीत्यर्थः । तत्र शेषमार्गणा नामत इमाः - अष्टौ नरकगतिभेदाः, एकोऽपर्याप्तमनुष्यभेदः, त्रिंशदेवगतिभेदाः, सप्तैकेन्द्रियभेदाः, नव विकलेन्द्रियभेदाः पृथिव्यादिवनस्पतिकायान्ता मूलोत्तराः सर्व इत्येकोनत्रिंशत्कायमार्गणाभेदाः, पञ्चमनोयोग- पञ्चवचोयोगौ-दारिक--वैक्रियवैकिय मिश्रा ऽऽहारका ऽऽहारकमिश्र काययोग-विभङ्गज्ञान-सामायिक छेदोपस्थापन- परिहारविशुद्धिकदेश संयम-तेजोलेश्या-पद्मलेश्या - क्षायोपशमिकसम्यक्त्व-सम्यग्मिथ्यात्व-सास्वादनमार्गणाभेदाश्चेति । एतासु षोडशाभ्यधिकशतमार्गणासु प्रत्येकमवस्थितबन्धस्य द्विसमयादधिकान्तरनिष्पादकश्रतुः सामfeat भूयस्कारबन्धस्त्रिसामयिको भूपस्काराल्पतरान्यतरबन्धो वा नास्ति, किञ्च स्थितेरवन्धकालोऽपि प्रकृतान्तरप्रयोजको भवितुं नार्हति किन्तु द्विसामयिको भूयस्कारबन्धोऽल्पतरो वा बन्ध एव लभ्यते, अतस्तदन्तरितयोरवस्थित स्थितिबन्धयोरन्तरमप्युत्कृष्टतो द्विसमयप्रमाणमेव प्राप्यते, न पुनस्तदधिकमिति ॥ ५८४-५८५।।
तदेवं मार्गणास्थानेषूक्तं सप्तानामवस्थितस्थितिबन्धस्यान्तरम् । अथ यासु मार्गणासु सप्तप्रकृतीनामवक्तव्यस्थितिबन्धस्य सद्भावः प्राक् सत्पदद्वारे प्रतिपादितस्तास्वक्तव्यबन्धान्तरसम्भवासम्भवाशङ्कायां यासु तदसम्भवस्तासु प्रतिषेधयन्नाह
पणमणवय-काय उरल अवेअ - सुइल-वसमेसु सत्तण्हं । मोहस्स तहा लोहेऽवत्तव्वस्संतरं णत्थि ॥ ५८६ ॥
(प्रे०) "पणमणवये" त्यादि, पञ्चमनोयोग पञ्चवचोयोग-काययोगसामान्यौ-दारिककाययोगा-ऽपगतवेद-शुक्ललेश्यौ-पशमिकसम्यक्त्वमार्गणासु प्रत्येकमायुर्वर्ज सप्तप्रकृतीनां तथा लोभमार्गणायां मोहनीय कर्मणोऽवक्तव्यस्थितिबन्धसद्भावेऽपि तस्यावक्तव्य स्थितिबन्धस्याऽन्तरं 'नास्ति' न विद्यत इत्यर्थः । कुतः ? द्वितीयावक्तव्यवन्धात्पूर्वमेव प्रकृतमार्गणानां व्यवच्छेदात् ।
इदमुक्तं भवति - आयुर्वर्जसप्तप्रकृतीनां प्रत्येकमेकजीवाश्रयस्यावक्तव्य स्थितिबन्धस्यैकस्यामुपशमश्रेण सकृदेव सम्भवः, अवक्तव्यबन्धस्यान्तरं त्ववक्तव्यवन्धे वारद्वयं जाते तदन्तरालमपेक्ष्य लभ्यते, प्रकृते च कस्यचिज्जीवस्योपशमश्रेणौ प्रथमावक्तन्यबन्धादूर्ध्वं द्वितीयवारमवक्तव्यबन्धोऽधः प्रतिपत्य पुनरपि श्रेण्यारोहणे क्रमेण सम्भवति, न पुनस्तदर्वागपि पुनः श्रेण्यारोहणं तदा सम्भवति, यदाऽसात्रधोऽप्रमत्तादिगुणस्थाने क्षायोपशमिकं सम्यक्त्वं स्पृशेत् । कस्मात् ? नैरन्तर्येण प्रवर्तमान औपशमिकसम्यक्त्वे सकृदेवोपशमश्रेण्यारोहणस्य सम्भवात् । इत्थं हि प्रोक्तमनोयोगादितत्तन्मार्गणायां कचिज्जीवः प्रथमवारमवक्तव्य स्थितिबन्धं कृत्वा यावत्क्षायोपशमिकसम्यक्त्वं स्पृशति तावत्तु तस्य मनोयोगादिसर्वमार्गणातो बहिर्भावो जायते, तत्र योगादीनां प्रत्यन्तमुहूर्तं परावर्तनात्तद्रहिर्भावः, वेदोदयात् क्षायोपशमिकसम्यक्त्वस्पर्शनाच्चापगतवेद मार्गणीपशमिकसम्यक्त्वमार्गणावहिस्त्वं विज्ञेयम् । इत्येवं प्रकृतमार्गणास्त्रविच्छेदेन प्रवर्तमानासु सतीसु वारद्वयमवक्तव्यबन्धस्याऽसम्भवा तदन्तरस्याऽभाव एवाऽवाप्यत इति ॥ ५८६ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org