________________
४६२ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुर्वर्जानामवस्थित० अथ यासु मार्गणासु सप्तानामवस्थितबन्धस्यान्तरं त्रिसमयास्ताः पिण्डीकृत्याहपंचिंदियतिरियचउग-असमत्तपणिंदि-उरलमीसेसु ।
थी-पुरिस-असण्णीसुअवट्ठिअस्स तिखणा परमं ॥५८३॥ (प्रे०) "पंचिदियतिरियचउगे” त्यादि, पञ्चेन्द्रियतिर्यग्चतुष्का-ऽपर्याप्तपञ्चेन्द्रियौदारिकमिश्रकाययोगमार्गणासु स्त्रीवेद-पुरुषवेदा-ऽसंज्ञिमार्गणास् च प्रत्येकं सप्तप्रकृतिसत्कावस्थितस्थितिबन्धस्योत्कृष्टमन्तरं त्रिसमयप्रमाणं लभ्यत इत्यर्थः । अत्राप्यन्यतमस्यां मार्गणायामुपशान्तचारित्रमोहानां जीवानामप्रवेशेन स्थितेरवन्धकालप्रयुक्तं प्रस्तुतान्तरं न प्राप्यते, किश्च पञ्चेन्द्रियतिर्यगोपादिद्वादशमार्गणासूत्कृष्टोऽपि भूयस्कारस्थितिबन्धकालस्त्रिसमया एव लभ्यते, अतः त्रिसामयिकभूयस्कारबन्धेनान्तरितयोरवस्थितस्थितिबन्धयोरन्तरालमपेक्ष्यावस्थितबन्धस्योत्कृष्टान्तरमपि त्रयस्समया एव सम्पद्यते, न पुनस्तदधिकमिति । यद्वाऽल्पतरस्थितिबन्धकालप्रयुक्ताऽन्तरालमपेक्षयाऽपि तल्लामः सम्भवतीति प्रकारान्तरेणाप्युपपादनीयमिति ।।५८३।।
अथशेषमार्गणासु प्रकृतान्तरं दर्शयन्नाह
णरतिग-दुपणिंदियतस-काय-ऽवगयवेअ-णाणचउगेसु । संयम-णयणियर-अवहि-सुइल-भविय-सम्म-खइएसु ॥५८४॥ उवसम-सण्णीसु तहा आहारम्मि हवए मुहुत्तंतो।
सेसासु दोण्णि समया अवट्ठिअस्स हवए परमं ॥५८५॥ (प्रे०) “णरतिगदुपणिंदिये"त्यादि, अत्र 'व्याख्यानतो विशेषप्रतिपत्ति" रितिन्यायेन नरत्रिकेत्यनेनापर्याप्तमनुष्यभेदवर्जाः शेषा मनुष्यगतिमार्गणासत्कास्त्रयो भेदा ग्राह्याः, अतस्तेषु मनुष्योध-पर्याप्तमनुष्य-मानुषीमार्गणासु, तथा तेनैव न्यायेनापर्याप्तवर्जितयोयोः पञ्चेन्द्रियजातिभेदयोः, द्विशब्दस्य त्रसेत्यनेनापि योजनादपर्याप्तभेदवर्जयोईयोस्त्रसकायभेदयोः, काययोगसामान्या-उपगतवेद-मत्यादिज्ञानचतुष्केषु, संयमौघ--चक्षुर्दर्शना-ऽचक्षुर्दर्शना-ऽवधिदर्शन-शुक्ललेश्याभव्य-सम्यक्त्वौध-क्षायिको-पशमिकसम्यक्त्व--संज्ञिमार्गणासु, तथाऽऽहारिमार्गगायां प्रत्येक "हवए मुहुत्तंतो" त्ति प्रकृतं सप्तप्रकृतीसत्कावस्थितस्थितिबन्धस्योत्कृष्टमन्तरं 'मुहूर्तान्तः' -अन्तमुहूर्तं भवतीत्यर्थः । सुगमं चैतत् , प्रत्येकमुपशान्तमोहगुणस्थानादिगतानां जीवानां प्रवेशात् । भावनात्वबन्धकालमधिकृत्य द्रष्टव्येति ।।
___"सेसासु" ति 'कम्मे सुहुमे अणाहारे' इत्यादिनाभिहिताः कार्मगकाययोगादिचतुःपश्चाशन्मार्गणा विहाय शेषासु नरकगत्योघादिपोडशोत्तरशतमार्गणासु प्रत्येकम् “अवडिअस्स" ति सप्तप्रकृतीनामवस्थितस्थितिबन्धस्य 'परमम्'-उत्कृष्टमन्तरं "दोणि समया" ति द्वौ समयौ
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International