________________
मार्गणास्वायुर्वेर्जानामवस्थित०] द्वितीयाधिकारेऽन्तरद्वारम्
[ ४६१ (प्रे०) “सव्वासु" ति नरकगत्योघाद्यनाहारकपर्यन्तासु सर्वासु मार्गणास्वायुर्वर्जानां सप्तप्रकृतीनामवस्थितस्य स्थितिबन्धस्य 'ह्रस्वं'-जघन्यमन्तरं "समयो” त्ति एकसमयप्रमाणं भवेदित्यर्थः । सुगमम् । भावनात्वोघवद् द्रष्टव्येति । अथैतस्यैवावस्थितस्थितिबन्धस्योत्कृष्टमन्तरं दर्शयन्नाह-"परमं वि भवे समयो” इत्यादि, कार्मणकाययोग-सूक्ष्मसम्परायसंयमा-ऽनाहारकमार्गणासु प्रत्येकं सप्तप्रकृतिसत्कावस्थितस्थितिबन्धस्य 'परमम्'-उत्कृष्टमन्तरमपि समय एव भवेत् , किं पुनर्जघन्यान्तरमित्यपिशब्दार्थः ।।
तत्र कार्मणा-ऽनाहारकमार्गणयोरेकजीवापेक्षयोत्कृष्टतोऽपि समयत्रयाऽवस्थानेन मध्यसमये भूयस्काराल्पतरान्यतरबन्धभावे कालद्वारे 'कम्माणाहारेसु उ' इत्यादि (५७५) गाथायां गौणभावेन दर्शितविवक्षान्तरमधिकृत्य प्रथमचरमसमयजायमानाऽवस्थितस्थितिबन्धयोरन्तरंसमयमानं विज्ञेयम् , न तु मुख्यवृत्याऽधिकृतविवक्षया, तया विवक्षया मागणाप्रथमसमयजातस्थितिबन्धस्याऽवस्थितस्थितिबन्धतयाऽप्यप्राप्तेः,शेषसमयद्वयापेक्षया तु भयस्कारादिवदवस्थितस्थितिबन्धान्तरस्याप्यसम्भव एवेति । सूक्ष्मसम्परायसंयममार्गणायां तु भूयस्काराल्पतरद्विविधस्थितिबन्धयोरुत्कृष्टस्यापि कालस्य समयमात्रत्वात्तेनान्तरितयोरवस्थितस्थितिबन्धयोरन्तरमपि समयादधिकं नैव भवतीति समयमात्र मभिहितमिति ।।५८१।।
यासु मार्गणास्ववस्थितस्थितिबन्धस्योत्कृष्टान्तरं चत्वारः समयास्ताः संगृह्याहतिरिय-अपज्जतस-णपुम-कसायचउग-दुअणाण-अयतेसु।
असुहतिलेसा-अभविय-मिच्छेसु होइ चउसमया॥५८२॥
(प्रे०) "तिरियअपज्जतसे" त्यादि, तिर्यग्गत्योघा-ऽपर्याप्तत्रसकाय-नपुसकवेद-क्रोधादिकपायचतुष्क--मत्यज्ञान-श्रुताज्ञाना-ऽसंयममार्गणासु तथाऽशुभकृष्णादित्रिलेश्या-ऽभव्य--मिथ्यात्वमार्गणामु प्रत्येकं सप्तप्रकृतिसत्कावस्थितस्थितिबन्धस्यान्तरं चत्वारः समया भवतीत्यर्थः । कुतः ? उच्यते, एतासु प्रत्येकमवस्थितबन्धादन्ये ये भूयस्कारादिबन्धास्तेषु भूयस्कारस्थितिबन्धस्योत्कृष्टः कालश्चत्वारः समयाः प्राप्यते, तेन समयचतुष्कप्रमाणभूयस्कारवन्धकालेनान्तरितयोवस्थितस्थितिबन्धयोरन्तरं चत्वारः समया भवति ।
___ ननु प्रस्तुततिर्यग्गत्योघादिपञ्चदशमार्गणावत् त्रसकायौघ-पर्याप्तत्रसकाय-काययोगसामान्यचक्षुर्दर्शना-ऽचक्षुर्दर्शन-भव्यमार्गणास्वपि प्रत्येकमवस्थितेतरस्य भूयस्कारवन्धस्योत्कृष्टकालश्चत्वारः समया एवोक्तः, तर्हि त्रसकायौघादिमार्गणाः कथमत्र न संगृहीताः ? इति चेद्, उच्यते, तासु वसकायोघादिमार्गणासूपशमश्रेणिगतानामपि जीवानां प्रवेशेन तदीयस्थितेरवन्धकालमाश्रित्यावस्थितस्थितिबन्धस्यान्तरमन्तमुहूर्तमपि लभ्यते, न पुनरधिकृततिर्यग्गत्योधादिमार्गणास्वपि, श्रेणिगतानामुपशमकानामत्राप्रवेशात् । इत्येवं चतुःसमयान्तरकथनप्रस्तावात्तिर्यग्गत्योपादिमार्गणाः संगृह्याऽपि त्रसकायौघादिमार्गणा उपेक्षिता इति ॥५८२॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org