________________
४६०]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां भूयकारा-ऽल्पतर० सव्वासु सत्तण्हं लहु खणो अंतरं मुणेयव्वं । भूगारप्पयराणं भिन्नमुहुत्तं उ उक्कोसं ॥५७९॥ णवरि हवेज्ज कणिटुं भिन्नमुहुत्तं अवेअ-सुहुमेसु। कम्मा-ऽणाहारसुण होअए अंतरं चेव ॥५८०॥ (प्रे०) “सवासु सत्तण्ह" मित्यादि, नरकगत्योघादिषु सर्वमार्गणास्वायुर्वर्जानां सप्तमूलप्रकृतीनां 'लघु'-जघन्यमन्तरं "खणो” त्ति समयो ज्ञातव्यम् । कस्य कस्येत्याह-"भूगारप्पयराण” ति भूयस्काराऽल्पतरस्थितिबन्धयोः प्रत्येकमित्यर्थः । तयोरेवोत्कृष्टान्तरमाह-"भिन्नमुहत्तं" इत्यादि, तयोः सप्तमूलप्रकृतीसत्कभूयस्काराऽल्पतरस्थितिबन्धयोः प्रत्येकमुत्कृष्टमन्तरं तु 'भिन्नमुहूर्तम्, अन्तमुहूर्त मित्यर्थः । अयं हि लाघवकृतः सामान्यो निर्देशः, तथा च निर्दिष्टे याऽतिप्रसक्तिस्तां निराचिकीषुराह-"णवरि" इत्यादि, परमयमत्र विशेषः । कोऽसावित्याह"हवेज्ज कणिट्ठ” इत्यादि, अपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोः प्रत्येकं “कणि?" ति प्रकृतबन्धद्वयसत्कं 'कनिष्ठं -जघन्यमन्तरं 'भिन्नमुहूतं भवेत् , न पुनः समय इत्यर्थः ।
“कम्माणाहारेसु” इत्यादि, कार्मणकाययोगा-ऽनाहारकमार्गणयोश्चप्रत्येकं भूयस्काराऽल्पतरलक्षणस्थितिबन्धद्वयसत्कमन्तरमेव न भवतीत्यर्थः । अत्रापगतवेद-सूक्ष्मसम्परायसंयममार्गणयोः प्रकृतान्तरस्य जघन्यतोऽप्यन्तमुहूर्तप्रमाणस्य कथनं तयोर्मागणयोर्जायमानाः स्थितिबन्धाः प्रत्येकमन्तमु हतं प्रवच्य परावर्तन्ते, न त्वर्वाक , तथा च श्रेणितः प्रपततां तत्तत्स्थितिबन्धप्रथमसमये जायमानाद्भयस्कारादनन्तरप्रवृत्तोऽवस्थितबन्धोऽन्तमुहूर्तमवतिष्ठत एव, तदूर्ध्वमन्यविधेऽधिकस्थितिबन्धे प्रारब्ध एव पुनर्भूयस्कारबन्धसम्भवः, न तु ततोगिपि,इत्येवमवस्थितस्थितिबन्धस्य जघन्यकालतुल्यं जघन्यतोऽप्यन्तरं प्राप्यते, अवस्थितबन्धस्य जघन्यकालस्तु प्रकृतमागेणयोरन्तमुहूर्तम् , अतो भूयस्कारबन्धस्य जघन्यान्तरमपि तावदुक्तम् । इत्थमेवाल्पतरस्थितिबन्धस्य जघन्यान्तरविषयेऽपि विभावनीयम् । यस्तु कार्मणकाययोगानाहारकमार्गणयोः प्रकृतान्तराभावः सोऽपि मुख्यतयाऽधिकृतेन विवक्षाविशेषेण त्रिसामधिक्यामपि कार्मगकाययोग्यवस्थायां प्रथमसमयबन्धस्य मार्गणान्तरजातपूर्वसमयबन्धेन तुल्यत्वादावपि भूयस्कारतयाऽल्पतरतया वाऽलाभात् , शेषसमयद्वयमपेक्ष्य त्वन्तरस्यैवाऽसम्भवादिति । एताश्चतस्रो मार्गणा विवयं शेषासु तु प्रस्तुतबन्धयोर्जघन्यमुत्कृष्टं चान्तरमौधिकभावनानुसारेण स्वयमेव योज्यमिति ।।५७९.५८०॥
अथ सप्तप्रकृतीनामवस्थितस्थितिबन्धस्यान्तरं दिदर्शयिपुराह
सब्बासु सत्तण्हं समयो हस्सं अवट्ठिअस्स भवे । परमं वि भवे समयो कम्मे सुहुमे अणाहारे ॥५८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org