SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ओघत आयुषोऽल्पतरावक्तव्य० ] भूयस्काराधिकारेऽन्तरद्वारम् [ ४५९ एवमेवोत्कृष्टान्तरमप्युशमश्रेणैर्देशोनार्धपुद्गलपरावर्तप्रमाणैरेकजीवाश्रयोत्कृष्टान्तरवद् भावनीयम् , केवलमन्तरप्रारम्भात् पूर्वमुपशमश्रेणित उपशान्ताद्धाक्षयेण प्रतिपातादवक्तव्यस्थितिबन्धो द्रष्टव्यः, तदूचं तु देशोनार्धपुद्गलपरावर्तकालं संसारपर्यटनादनन्तरमन्तमुहूर्तेऽवशेषे संसारे पुनरप्युपशमश्रेणित उपशान्ताद्धाक्षयेण पातादवक्तव्यस्थितिबन्धो द्रष्टव्यः, न पुनरेकदाऽप्युशमश्रेणी का लकरणेन देवगतावुत्पत्या । कस्मात् ? अन्तरपारम्भ उपशमश्रेणी कालं कृत्वा देवगतावुत्पद्यमानस्योत्कृष्टतोऽपि संख्येयभवप्रमाणाल्पसंसारत्वेनोत्कृष्टान्तरस्यानुत्पत्तेः, अन्तरप्रान्ते तु तथात्वे शेषसंसारकालस्य जघन्यतोऽपि संख्येयसागरोपमप्रमाणतयोत्कृष्टान्तरानुत्पत्तश्चेति । अथायुषो द्विविधबन्धस्य द्विविधान्तरमाह-"आउस्स अंतरं खलु” इत्यादिना, आयु:कर्मणः “पयाण दोण्ह वि" त्ति अल्पतराऽवक्तव्यस्थितिबन्धलक्षणयोईयोरपि पदयोः प्रत्येक 'लघु'-जघन्यमन्तरं खलु 'मुहूर्तान्तः' -अन्तमुहूर्तम् । तथा “उक्कोसं" ति तयोरेक द्वयोः पदयोरुस्कृष्टं-दीर्घमन्तरमभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि विज्ञेयमित्यर्थः।। इयमत्र भावना-यदाऽऽयुर्वन्धो जायते तदा प्रथमसमयेऽवक्तव्यस्थितिबन्धो द्वितीयसमयादन्तमुहूर्त याबदल्पतरस्थितिबन्धाश्च नियमेन भवन्तीत्यसकृदभिहितम् ,तथा च सत्यायुःप्रकृतिबन्धस्य जघन्योत्कृष्टान्तरानुसारेण तदीयाल्पतराऽवक्तव्यस्थितिबन्धयोरपि द्विविधान्तरं प्राप्यते । तथाहिवेद्यमानायुषस्त्रि-नव-सप्तविंशतितमभागाद्यवशेषप्रकारेणायुबन्धप्रायोग्यां विचरमाद्धां प्राप्य कश्चिज्जन्तुः प्रथमाकर्षणायुर्वन्धं प्रारभते तदा प्रथमसमयेऽवक्तव्यस्थितिबन्धं करोति, तदूर्ध्व त्ववक्तव्यबन्धस्यान्तरं प्रारब्धम् , द्वितीयसमयात्प्रवृत्ताल्पतरस्थितिबन्धस्त्वन्तमुहूर्त यावन्नरन्तर्येण प्रवच्याऽऽयुर्बन्धनिष्ठया समं निष्ठां याति, तदृवं त्वल्पतरस्थितिबन्धस्यान्तरं प्रवृत्तं, ते च द्वेऽप्यन्तरेऽन्तमुहूर्तेऽतिक्रान्ते यदाऽसौ जीव आयुर्वन्धप्रायोग्यां चरमामद्धां प्राप्य द्वितीयाकर्षेण पुनरप्यायुर्बन्धं प्रारमते, तदा क्रमेण निस्तिष्ठतः । इत्थमल्पतरा-ऽवक्तव्ययोः द्वयोरपि स्थितिबन्धयोः प्रत्येकं जयन्यमन्तरमन्तमु हतप्रमाणं लभ्यते । उभयत्र यो विशेषः स तु भावनातो गम्यतेऽतः पृथङ्नोच्यत इति । __द्विविधवन्धयोरुत्कृष्टान्तरमपीत्थमेव भावनीयम् , नवरं प्रथमायुर्वन्धो वेद्यमानपूर्वकोटीवर्षायुषस्तृतीये भागेऽवशेषे द्रष्टव्यः, तदनन्तरं द्वितीयायुर्वन्धस्तु मृत्वा नरकगतौ देवगतौ वोत्कृष्टस्थितिकतयोत्पद्य तत्र वेद्यमानोत्कृष्टायुषश्वरमान्तमुहूर्तेऽसंक्षेप्याद्धायां वर्तमानस्य द्रष्टव्यः, नत्व कि । एवं सति प्रकृतोत्कृष्टान्तरमन्समुहूर्तानपूर्वकोटीतृतीयभागाभ्यधिकत्रयस्त्रिंशत्सागरोपमप्रमाणं लभ्येत, तदेवाऽऽयुषोऽल्पतरा-ऽवक्तव्यस्थितिबन्धोत्कृष्टान्तरतया बोद्धव्यमिति ॥५७७-५७८॥ __ तदेवमुक्तमष्टानां प्रकृतीनां भूयस्कारादिचतुर्विधानामपि स्थितिवन्धानां द्विविधमेकजीवाश्रयमन्तरमोघतः । अथ तदेवादेशतो व्याजिहीर्षुरादावायुर्जानां सप्तप्रकृतीनामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy