________________
४५८ ]
बंधविहाणे मूलपयडिटिइबंधो [ ओघत आयुर्वर्जानां भूयस्कारादि० भावतः संक्लेशहानौ पुनरप्यल्पतरस्थितिबन्धो भवति तदाप्येकसमयमन्तरं प्राप्यते, इत्येवं प्रकारान्तरैरपि यथासम्भवं भावनीयमिति ।
अवस्थितस्थितिबन्धजघन्यान्तरं तु सुलभम्, सामान्यतोऽवस्थितस्थितिबन्यादूर्ध्वमेकसामयिके भूयस्कारबन्धेऽल्पतरबन्धे वा जाते प्रायेण पुनरप्यवस्थितस्थितिबन्धस्य प्रवर्तनादिति ।
सप्तानां भूयस्कारस्थितिबन्धस्योत्कृष्टान्तरं पुनः प्रमत्तगुणस्थाने चरमं भूयस्कारबन्धं समाप्योपशमश्रेणिमारुह्य ततः प्रतिपततो जीवस्य लभ्यते । कुतः ? श्रेणिमारोहतो जीवस्यावस्थितबन्धानामल्पतरबन्धानां चैव भावेन तैः संख्येयैरल्पतरवन्धैरवस्थितबन्धैश्चान्तरितयोभूयस्कारस्थितिबन्धयोरन्तरं सर्वदीर्घं भवतीति कृत्वा ।
अल्पतरस्थितिबन्धस्योत्कृष्टान्तरमपीत्थमेव लभ्यते, नवरमनिवृत्तिवादरगुणस्थानके मोहनीयस्य, सूक्ष्मसम्परायगुणस्थाने शेषाणां षण्णां चरमस्थितिबन्धप्रारम्भेऽल्पतरबन्धं कृत्वा क्रमेणोपशान्तमोहगुणस्थानकं प्राप्य तत उपशान्ताद्वाक्षयेण प्रतिपत्य प्रमत्तगुणस्थाने पुनरप्यल्पतरस्थितिबन्धं कुतो जीवस्य प्राप्यते ।
अवस्थितस्थितिबन्धस्योत्कृष्टान्तरं तु भूयस्का रादीनामुत्कृष्टकालापेक्षया न लभ्यते, किन्त्यबन्धकालापेक्षया प्राप्यते । तथाहि - उपशमश्रेणौ सूक्ष्मसम्परायगुणस्थानकचरमसमयेऽवस्थित स्थितिबन्धं समाप्योपशान्तमोहगुणस्थानं प्राप्तः यः कचिज्जीव उपशान्तमोहगुणस्थानकालं तत्रैव निर्गमय्य ततः प्रतिपत्य सूक्ष्मसम्परायगुणस्थानेऽवक्तव्यबन्धादूर्ध्वं मृत्वा देवगतावुत्पद्य देवभवद्वितीयसमये भूयस्कारबन्धादनन्तरं मोहनीयायुर्वर्जानां षण्णामवस्थितस्थितिबन्धं पुनरपि प्रारभते, तस्य षण्णामत्रस्थितस्थितिबन्धस्योत्कृष्टान्तरं द्विसमयाधिकोपशान्तमोहगुणस्थानकालप्रमाणं प्राप्यते, तदेव प्रकृते उत्कृष्टान्तरतया विज्ञेयम् । मोहनीयकर्मणोऽवस्थित स्थितिबन्धस्य तु तद् वृहदन्तर्मुहूर्तप्रमाणं बोद्धव्यम्, मोहनीयाऽबन्धस्य सूक्ष्मसम्परायगुणस्थानेऽपि लाभात् । भावना तु प्रागिव कर्तव्येति ।
"
अथाऽवक्तव्यस्थितिबन्धस्य जघन्योत्कृष्टान्तरे दर्शयन्नाह - "सत्तण्ह मुहुत्ततोऽवत्तव्वस्से” त्यादि, सप्तानां प्रकृतीनामवक्तव्यस्थितिबन्धस्य 'लघु' - जघन्यमन्तरं 'मुहूर्तान्तः ' - अन्तर्मुहूर्तं ज्ञेयम् । “जेट्ठ" त्ति तस्यैवावक्तव्य स्थितिबन्धस्य 'ज्येष्टम् ' - उत्कृष्टमन्तरम् "अडपरहो देसूणो पोग्गलाण भवे” त्ति 'देशोनः' - एकदेशेनोनः पुद्गलानामर्धः परावर्ती भवेत्, उपशश्रेण्युत्कृष्टान्तरवद् देशोनार्धपुद्गलपरावर्तप्रमाणं भवेदित्यर्थः । तत्रोपशान्तमोहगुणस्थानात् पततस्तत्तत्प्रकृतीनां स्थितिबन्धप्रारम्भसमयादूर्ध्वं प्रवृत्तमवक्तव्य स्थितिबन्धान्तरमधस्तादन्तर्मुहूर्तं विश्रम्य पुनरप्युपशमश्रेणिमारुह्याबन्धद्वितीयसमये कालकरणेन देवगतौ पुनरप्यवक्तव्यबन्धे जाते यदा निष्ठामेति तदा सप्तानामवक्तव्यस्थितिबन्धस्य जघन्यमन्तरं लभ्यते तच्चान्तमुहूर्तमेव भवति । कुतः ? उपशमश्रेण्यारोहणावरोहणकालस्याधो जघन्यावस्थानकालस्य च समुदितस्याप्यन्तमुहूर्तमात्रत्वादिति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org