________________
॥ अथ चतुर्थमन्तरद्वारम् ॥ साम्प्रतं क्रमप्राप्तेऽन्तरद्वारे मूलप्रकृतिसत्कभूयस्कारादिस्थितिबन्धानामेकजीवाश्रितमन्तरं प्रहरूपयिषुरादौ तावदोघत आह
सत्तण्ह अंतरं खलु भूगार-प्पयर-ऽवडिआण भवे । समयो हस्सं परमं भिन्नमुहुत्तं मुणेयव्वं ॥५७६॥ सत्तण्ह मुहुत्तंतोऽवत्तव्वस्संतरं लहुणेयं । जेट्ठ अद्धपरट्टो देसूणो पोग्गलाण भवे ॥५७७॥ आउस्स अंतरं खलु पयाण दोण्ह वि लहुमुहुत्तंतो।
उक्कोस्सं विण्णेयं तेत्तीसा सागराऽभहिया ॥५७८॥ (प्रे०) “सत्तण्हं अंतरं' इत्यादि, आयुर्वेर्जानां सप्तानां मूलप्रकृतीनां भूयस्कारा-ल्पतराऽवस्थितलक्षणानां स्थितिबन्धानां प्रत्येकमेकजीवाश्रयमन्तरं खलु भवेत् । किदित्याह-"समयो हस्सं" ति 'हवं'-जघन्यं 'समयः' -एकसमयो भवेत्, “परमं भिन्नमुहत्तं मुणेयवं" ति तेषामेव भूयस्कादिस्थितिबन्धानां 'परमम्'-उत्कृष्टमन्तरं 'भिन्नमुहूर्तम्'-अन्तर्मुहूतं ज्ञातव्यमित्यर्थः ।
इमेऽत्रोपपत्तिपन्थानः--कस्यचिद्देशसंयतादेर्भवद्विचरमसमये पूर्वस्थितिबन्धापेक्षयाऽधिकस्थितिबन्धो जातस्ततस्तस्य भयस्कारस्थितिबन्धोऽभूत् , ततस्तु भवचरमसमये तावन्मात्रः स एव स्थितिबन्धः प्रवृत इत्येवं भवचरमसमये तस्याऽवस्थितो नाम स्थितिबन्धोऽभूत् , तदूर्ध्वं तु कालकरणेन देवगतावुत्पन्नस्य तस्य तत्राऽसंयमावस्थायां प्रत्याख्यानावरणकषायोदयात् पूर्वभवचरमसमयापेक्षया संख्येयगुणाधिकस्थितिबन्धः प्रवृत्तः, अतस्तदानीं तस्य जन्तोः पुनरपि भूयस्कारस्थितिबन्धः प्राप्तः । एवं तस्य पूर्वभवद्विचरमसमयजातोतरभवप्रथमसमयजातो भयस्कारबन्धावेकसामायिकेनावस्थितस्थितिबन्धेनान्तरितावभताम् । एतादृशजीवन कतस्यैकसामयिकावस्थितस्थितिबन्धान्तरितभूयस्कारस्थितिवन्धद्वयस्य जघन्यमन्तरमेकसमयं प्राप्यते; अन्यथा वैकेन्द्रियादिभ्यो द्वीन्द्रियादितयोत्पायेदं भावनीयम् । प्रकारान्तरेण वा तथास्वाभाव्यात् स्वस्थान एव समयान्तरजातयोभूयस्कारयोर्मध्यवर्त्यवस्थितस्थितिबन्धस्य समयमात्रजघन्यकालापेक्षयाऽपि भूयस्कारस्य जघन्यमन्तरं भवतीति यथासम्भवं द्रष्टव्यमिति । ___अल्पतरस्थितिबन्धस्य जघन्यान्तरमप्यनया रीत्या भाव्यते, नवरं भवद्विचरमसमये हीनस्थितिबन्धम्, ततश्चरमसमये तावन्मात्रस्थितिबन्धं कृत्वाऽनन्तरं संक्षिपञ्चेन्द्रियादितश्च्युत्वाऽसंज्ञिपञ्चेन्द्रियादितयोत्पत्तौ नियमतो न्यूनस्थितिबन्धभावात् तादृशजीवविशेषापेक्षया भावनीयम् । अन्यथा वा स्वस्थाने संक्लेशाद्धाक्षयादल्पतरबन्धः, ततः समयमेकमवस्थितबन्धः, तत पुनरपि स्व
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org