________________
४५६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामवक्तव्यकाल०
आयुषोऽल्पतरा-ऽवक्तव्यस्थितिबन्धयोरेकजीवाश्रयकालप्रदर्शकयन्त्रकम्
प्रवक्तव्यस्य प्रोघत: सर्वमार्गणास्थानेषु च जघन्योत्कृष्टोभयथा समयमात्रः ।
गाथा
५६३
सर्वमनोवचोयोगभेद-काययोगौघा-ऽऽहारक-तन्मिश्री-दारिक-वैक्रियकाययोग-क्रोधादिकषायअल्पतरस्य | चतुष्कलक्षणासु १६ मार्गणासु जघन्यतः समयः, उत्कृष्टतोऽन्तमुहूर्तम् ।
अोघतः शेषमार्गणासु च जघन्योत्कृष्टोभयथाऽन्तर्मुहूर्तम् । कार्मणाऽनाहारकमार्गणाइयेऽवस्थितस्थितिबन्धविषयकप्रतिपादन एव मार्गणान्तरचरमसमयभाविस्तोकस्थितिबन्धेन तुल्यत्वादिना तदुत्तरप्रवृत्तमार्गणाप्रथमसमयभाविस्थितिबन्धस्याऽपि भूयस्कारादित्वमित्येवंरूपा विवक्षा तादृग्विवक्षया प्ररूपणम्य सम्भवमात्रप्रदर्शनार्थ गोणतयाऽऽदृता, अन्यत्र तु सर्वत्र देवगत्योघादववक्तव्यस्थितिबन्धप्रतिषेधिका विवर्तवाङ्गीकृता, इति सैव मुख्यरूपेण विज्ञेया, तयैव पूर्वोत्तरग्रन्थो सङ्गमनीयः, विहाय कार्मणा-ऽनाहारकमार्गणाद्वयेऽवस्थितस्थितिवन्धविषयकारूपणमित्यलं पल्लवितेनेति ।
___ अनन्तरोक्तमार्गणाद्वयवर्जशेषमार्गणास्वाह-“सेसासु मुहुत्तंतो” त्ति सप्तमूलप्रकृतीनामत्रस्थितस्थितिबन्धस्योत्कृष्टकालः शेषास्वष्टषष्ट्युत्तरशतमार्गणासु प्रत्येकमन्तमुहूर्तम् । अयमन्तर्मुहूर्तबन्धकालस्त्वोधवत्सुगमः । अथावक्तव्यस्थितिवन्धस्याह-"जहऽवत्तव्वो” इत्यादिना,तत्र "जह" त्ति 'यत्र'-यासु मार्गणासु “वत्तव्वो" त्ति अकारस्य दर्शनात्प्रकृतानामायुर्वर्जानां सप्तप्रकृतीनामवक्तव्यस्थितिबन्धः प्राक् प्रथमे सत्पदद्वारे सत्तयाऽभिहित इत्यर्थः । “तह" त्ति 'तत्र'-तासु मनुष्यगत्योपादिपटत्रिंशन्मार्गणासु "खणो से" ति तस्यावक्तव्यस्थितिबन्धस्योत्कृष्टकालः 'क्षणः' - एकसमयो ज्ञेयः । अयम्भाव:-अपर्याप्तमेदवर्जेषु त्रिषु मनुष्यगतिभेदेषु तथैव पञ्चेन्द्रियौघ-पर्याप्तपञ्चेन्द्रिय-सौघ-पर्याप्तत्रस-पञ्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यौ--दारिककाययोगा-ऽपगतवेद-मत्यादिचतुर्ज्ञान-संयमोघ--चक्षुरादित्रिदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वोध-क्षायिकसम्यक्त्वा-पशमिकसम्यक्त्व-संड्या-ऽऽहारिमार्गणाभेदेषु च सप्तानामपि प्रकृतीनामवक्तव्यस्थितिबन्धस्योत्कृष्टकाल एकः समयः, लोभमार्गणायां मोहनीयकर्मणोऽवक्तव्यस्थितिवन्धस्योत्कृष्टकाल एकसमयश्च । शेषमार्गणासु शेषकर्मणां चावक्तव्यस्थितिबन्धस्यैवाभावादमी नोच्यत इति । वस्तुतोऽवक्तव्यस्याऽजघन्यानुत्कृष्टकाल एव समयः, यद्यप्येवं तथापि प्राग लाघवार्थं भूयस्कारादिचतुर्विधस्थितिबन्धानां प्रत्येकं जघन्यकालं समयमात्रमभिधाय तदनन्तरं भूयस्कारादिवन्धानामुत्कृष्टकालस्य भेदेनाभिधाने स्यादाशङ्का-'अवक्तव्यस्थितिबन्धस्योत्कृष्टः कालः कियान्' इत्यतोऽयो प्राग जधन्यव्यपदेशेनाभिहितोऽप्यत्रोत्कृष्टव्यपदेशेन पुनरप्यभिहित इति ॥५७५।।
तदेवं प्रतिपादित आयुर्वर्जशेषसप्तकर्मणां भूयस्कारादिस्थितिबन्धस्यैकजीवाश्रयोत्कृष्ट कालोऽपि मार्गणास्थानेषु । तस्मिंश्च प्रतिपादिते गतं तृतीयमेकजीवाश्रय कालद्वारम् । ॥ इति श्रीवन्धविधाने मलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे तृतीयमेकजीवाश्रयकालद्वारं समाप्तम् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org