________________
वायुर्वनां अवस्थितावक्तव्यकाल० ] भूयस्काराधिकारे कालद्वारम्
कम्मण-गयवेएस सुहुमा - Sणाहारसु होइ खणो । अप्पयरस्सुकोसो सेसासु गुरू दुवे समया ॥ ५७४॥
(प्र०) "कम्मणगय वेएसु" इत्यादि, कार्मणकापयोगाऽपगतवेदमार्गणयोः सूक्ष्मसम्परायसंयमानाहारकमार्गणयोः प्रत्येकं सप्तप्रकृतीनामल्पतरस्थितिबन्धस्योत्कृष्टकालः 'क्षणः' - समयो भवति । अयं हि प्रकृतमार्गणास्वेव प्राग्दर्शितभयस्कारस्थितिबन्धस्यैकसमयकालवद्भावनीयः । उक्तशेषमार्गणास्वाह-"सेसासु गुरू दुवे समयो" त्ति अनन्तरोक्ततिर्यग्गत्योघादिसप्तत्रिंशन्मार्गणावर्षासु शेषासु त्रयस्त्रिंशदभ्यधिकशतमार्गणासु प्रत्येकं सप्तप्रकृतीनामल्पतरस्थितिबन्धस्य 'गुरुः' - उत्कृष्टः कालो द्वौ समयौ भवतीत्यर्थः । तत्र शेषमार्गणा नामत एता::- अष्टौ नरकगतिभेदाः, चत्वारो मनुष्यगतिभेदाः, त्रिंशद् देवगतिभेदाः, सप्तैकेन्द्रियजातिभेदाः, नव विकलेन्द्रियजातिभेदाः, पृथिव्यादिवनस्पतिकायान्तपञ्चकाय मार्गणासत्का एकोनचत्वारिंशद्भेदाः, पञ्चमनोयोगभेदाः, पञ्चवचोयोगभेदाः, औदारिक-वैक्रिय-वैक्रियमिश्रा -ऽऽहारका ऽऽहारकमिश्रकाययोगभेदाः, मत्यादिचतुज्ञान - विभङ्गज्ञान-संयमौघ - सामायिक - छेदोपस्थापन - परिहारविशुद्धिक- देशसंयमा-ऽवधिदर्शन तेजःपद्म--शुक्ललेश्या-सम्यक्त्वौघ - क्षायिक क्षायोपशमिको-- पशमिकसम्यक्त्व - सम्यग्मिथ्यात्व - सासादनसंज्ञिमार्गणाभेदाश्चेति । एतासु कुतो द्वौ समयावेत्र ? उच्यते, निरन्तरतृतीयसमयाल्पतरस्थितिबन्धो जात्यन्तर उत्पत्त्यैव लभ्यत इति प्रागसद्भावितम् । स च प्रकृते न सम्भवति, जात्यन्तर उत्पादे प्रकृतनरकगत्योघादिमार्गणानामेव विच्छेदाद् इत्थं हि द्विसामयिकभूयस्कारस्थितिबन्धकालबदविकृतशेष मार्गणासु द्विसामयिकाल्प नरबन्धकालोऽपि भावनीय इति ॥ ५७४ ||
अथ सप्तप्रकृतीनामेवावस्थिताऽवक्तव्य स्थितिबन्धयोरुत्कृष्टकालं मार्गणास्थानेषु दर्शयन्नाह - कम्माहारे अस्सि तिखणा गुरू यो । सेसासु मुहुत्ततो जहवत्तव्वो तह खणो से || ५७५ ||
1
(प्रे०) “कम्मणाहारेसु उ" इत्यादि, तत्र तुकारो विवक्षाविशेषद्योतनार्थः । ततो विवक्षाविशेषेण कार्मणका योगा- नाहारकमार्गणयोर्ज्ञानावरणादीनामवस्थितस्थितिबन्धस्य 'त्रिक्षणाः' - त्रयस्समयाः “गुरू” त्ति उत्कृष्टबन्धकालो ज्ञेयः । विवक्षाविशेषस्त्वत्र मार्गगाप्रथमसमयभाविस्थितिबन्धस्याऽप्यनन्तरपूर्वसमये मार्गणान्तरभाविस्थितिबन्धेन तुल्यत्वेऽवस्थितस्थितिबन्धत्वविवक्षणलक्षणः ।
[ ४५३
एतदुक्तं भवति-मार्गणास्थानेषु भूयस्कारादिस्थितिबन्धसत्पदत्वं विवक्षितमार्गणायामेव पूर्वसमयजातेन स्थितिबन्धादिना सहाधिक्यतुल्यत्वादिना तदुत्तरसमयभा विस्थितिबन्धस्येदानीं यावद् विवक्षितम्, तदपेक्षया स्वामित्वादिप्ररूपणं कृतम्, उत्तरत्र कालादिप्ररूपणमपि तदपेक्षयैव करिष्यते च । अनया विवक्षया देवगत्योघादिमार्गणास्थानेषु ज्ञानावरणादीनामवक्तव्य स्थितिबन्धाभाववन्न लभ्यते कार्मणकाययोगादिमार्गणाद्वयेऽपि मार्गणाप्रथमसमयभाविस्थितिबन्धो भूयस्कारादितया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org