________________
४५४ ]
बंधविहाणे मूलपयडिठिइबंधो [ विवक्षान्तरेण भूयस्कारादिप्ररूपणे दिक् अवस्थितस्थितिवन्धतया वा, तदभावेऽवस्थितस्थितिवन्धस्योत्कृष्टतस्त्रिसमयकालश्च । कथम् ? एकजीवाश्रयमार्गणोत्कृष्टावस्थानस्यैव त्रिसमयमात्रत्वात् । एवमपि “कम्माणाहारेसु उ अवहिअस्स तिखणा गुरू णेयो” इत्यभिधानान पूर्वोत्तरग्रन्थविरोधः । कथम् ? इति चेद् , पूर्वोत्तरग्रन्थाऽधिकृतविवक्षया कार्मणकाययोगादिमार्गणाद्वये ज्ञानावरणादीनामवस्थितस्थितिबन्धोत्कृष्टकालस्य द्विसमयमात्रस्य स्पष्टत्वेऽपि समयत्रयस्य प्रतिपदानं तु विवक्षाविशेषेणैव । विवक्षाविशेषेण समयत्रयप्रतिपादनस्य बीजन्तु विवक्षाविशेषेणाऽपि भूयस्कारादिस्थितिबन्धप्ररूपणसम्भवप्रदर्शनम् , मार्गणान्तरचरमसमयभाविस्तोकादिस्थितिबन्धमपेक्ष्य तदुत्तरं विवक्षितमार्गणाप्रथमसमये नैरन्तर्येण जातस्य समयादिनाऽधिकादिस्थितिबन्धस्यापि भूयस्कारादिस्थितिबन्धत्वं विवक्ष्य भूयस्कारादिस्थितिबन्धप्ररूपणा सम्भवतीति भावः । केवलं नायं प्रकारोऽत्र मुख्यवच्याऽधिकृतः । कार्मणकाययोगादिमार्गणाद्वये ज्ञानावरणादीनामवस्थितस्थितिवन्धं विहायान्यत्र तस्यानधिकृतत्वेन गौणत्वात् ।
एवं हि द्विविधविवक्षया भयस्कारादिस्थितिवन्धप्ररूपणस्य सम्भवेऽप्येकविधविवक्षा मुख्यतयाऽऽहता, अन्यविधविवक्षा तु गौणभावेनैव दर्शिता, कार्मणकाययोगादिमार्गणाद्वये ज्ञानावरणादीनामवस्थितस्थितिवन्धलक्षणे स्थानविशेष एव तस्याधिकृतत्वात् ।
वस्तुतस्तु-कार्मणकाययोगादाववस्थितस्थितिबन्धलक्षणे स्थानविशेषे गौणभावनाभ्युपगता विवक्षैव मुख्यवच्या मार्गणान्तरेष्वादरणीयोचिता प्रतिभाति, न पुनर्या मुख्यतया निरयगत्योघादिसर्वमार्गणास्वधिकृता सा, तया विवक्षया प्रतिमार्गणं मार्गणाप्रथमसमयभाविस्थितिबन्धस्य भयस्कारादिचतुर्विवस्थितिमन्धानामन्यतमतयाऽप्राप्तेः तदप्ररूपणरूपन्यूनताभावात् ।
ननु अयमेव प्रकारो गौणः, यः पुनः कार्मणकाययोगादिमार्गणाहुये समयत्रयावस्थितस्थितिबन्धकालस्योत्पादको भवता गौणतयोच्यते, स एव मुख्य इत्यवधार्यताम् , तथाऽप्युक्तसर्वग्रन्थोपपत्तेः, विहाय देवगत्योघादौ ज्ञानावरणादीनामवक्तव्यस्थितिवन्धप्रतिषेधम् । स तु 'विवक्षितमार्गणायां तत्रैव भाविनं स्तोकादिस्थितिबन्धमपेक्ष्य तदनन्तरभाविस्थितिबन्धानां भूयस्कारादिस्थितिबन्धत्वम् , न पुनर्मार्गणान्तरभाविस्तोकादिस्थितिबन्धाद्यपेक्षया' इत्येवंलक्षणेन गौणीभूतेन विवक्षाविशेषेणैवोपपद्येत, न च स्यादुक्तन्यूनता ? इति चेत्, सत्यम्, निरयगत्योधादिसर्वमार्गणामुक्तसर्वसत्पदादिग्ररूपणस्य, एवं कार्मणा-ऽनाहारकमार्गणयोरवस्थितस्थितिवन्धविषयकप्ररूपणस्य देवगत्योधादिमागंणादाववक्तव्यस्थितिबन्धप्रतिषेधस्य च भवदुक्तनीत्योपपत्तेरपि कार्मणा-ऽनाहारकमार्गणाहये 'कम्मा-ऽणाहारेसुण होअप अंतर चेव' इत्यनेन वक्ष्यमाणस्यैकजीवाश्रयभूयस्कारादिस्थितिबन्धान्तरप्रतिषेधस्यानुपपत्तिरेव, अतस्तदर्थमपि देवगत्योधायुक्ताऽवक्तव्यस्थितिबन्धप्रतिषेधोपपत्तिवद् विवक्षान्तरानुसरणमावश्यकं स्याद्, न चैतद्युक्तम् , विवक्षान्तरेणाऽपि भूयस्कारादिस्थितिबन्धप्ररूपणं सम्भवतीत्येतावन्मात्रप्रदर्शनार्थं कुत्रचिद्देवगत्योघादौ केवलेऽक्तव्यस्थितिबन्धप्रतिषेधे तदनुसरणस्य पर्याप्तत्वेन पनः कामणाऽनाहारकमार्गणयोः भूयस्काराद्यन्तरप्रतिषेधे तदनुसरणस्य व्यर्थत्वात् । इत्यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org