________________
४५२ ]
बंधविहाणे मूलपयडिटिइबंधो [ मार्गणास्वायुर्वर्जानामल्पतरबन्धकाल ०
अयत-णयणियर-असुहतिलेसा-भवियियर-मिच्छ-अमणेसु । आहारगे य जेट्टो तिखणाऽप्पयरस्स सत्तण्हं ॥ ५७३ ॥
(प्रे) "तिरियपणिदितसेसु" इत्यादि, सर्वेषु तिर्यग्गतिभेदेषु सर्वेषु पञ्चेन्द्रियजातिभेदेषु, सर्वेषु सकायभेदेषु, काययोगसामान्यौ-दारिकमिश्रकाययोगयोः, स्त्रीवेद-पुरुषवेद-नपुंसक वेदेषु, कषायचतुष्क-मत्यज्ञान- श्रुताज्ञानेष्वसंयम-चक्षुर्दर्शना--ऽचक्षुर्दर्शन- कृष्णाद्यशुभत्रिलेश्या भव्या-भव्यमिथ्यात्वा ऽसंज्ञिष्वाहारके चेत्येवं समुदितासु त्रयस्त्रिंशन्मार्गणास्थानेषु प्रत्येकमायुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकमल्पतरस्थितिबन्धस्य 'ज्येष्ठः ' -उत्कृष्टः कालः “तिखणा" ति त्रयः समयाः, भवतीति शेषः । तत्र प्रथम द्वौ समय त्वोघवत्तथास्वाभाव्यप्रयुक्तावेव, तृतीयसमयाल्पतरबन्धोऽपि तथैव, नवरं यथासम्भवं संज्ञिपञ्चेन्द्रियादिभ्यश्च्युत्वाऽसंज्ञिपञ्चेन्द्रियादितयोत्पद्यमानानां तत्तन्मार्गणागतानां जीवानां भवप्रथमसमयस्थितिबन्धमपेक्ष्य विज्ञेयः । ननु भवतु तिर्यग्गत्योघादिमार्गणासु नानाजातीयजीवानां प्रवेशेन जात्यन्तर उत्पन्यापि तिर्यग्गत्योघादिमार्गणास्वेवोत्पत्तेः सम्भवाज्जात्यन्तरोत्पत्तिप्रयुक्तस्तृतीयसमयाऽल्पतरः; ततश्चाल्पतरस्योत्कृष्टो बन्धकालस्त्रयः समयाः, कथं पुनः सर्वेषु पञ्चेन्द्रियजातिभेदेषु स्त्रीवेदमार्गणायां पुवेदमार्गणायामपि प्रकृतकालस्त्रिसमयः सम्पद्यते ? इति चेद्, उच्यते, पञ्चेन्द्रियजातिमार्गणायां संज्ञिनामिवाऽ-संज्ञिजीवानामपि प्रवेशो विद्यते, ते चासंज्ञिनो यद्यपि पञ्चेन्द्रियजातीया एव, तथाऽपि तेषामेकेन्द्रियादिवद् विवक्षाधीना पृथग्जातिरेवाङ्गीकर्तव्या, एकेन्द्रियादिवन्मरणं विना संज्ञिपञ्चेन्द्रियाणा मध्यसंज्ञिपञ्चेन्द्रित्वेनाभवनात् विजातीयस्य सहस्रसागरोपमत्रिसप्तभागादिप्रमाणस्य नियतस्थितिबन्ध विशेषस्यैव भावाच्च । इत्थं च भवचरमसमयद्व येऽल्पतरस्थितिबन्धद्वयं कृत्वाऽसंज्ञिपञ्चेन्द्रियतया ये संज्ञिपवेन्द्रियजीवा उत्पद्यन्ते तेषां तत्र भवप्रथम समयेऽल्पतरबन्धः प्राप्यते, स च प्रकृतपञ्चेन्द्रियमार्गणागतजीवमपेक्ष्य निरन्तरस्तृतीयाऽल्पतरबन्ध एव । एवमेव पर्याप्तपञ्चेन्द्रिया- पर्याप्तपञ्चेन्द्रियभेदयोः स्त्रीवेद- पुवेदमार्गणाद्वये च विज्ञेयम्, स्त्रीवेदमार्गणादावपि पञ्चसङ्ग्रहाद्यभिप्रायेणासंज्ञिनामपि प्रवेशात् । उक्तं च पञ्चसङ्ग्रहमूलटीकाकारैः
,
1
'यद्यपि चासंज्ञिपर्याता पर्याप्तौ नपुंसकौ तथाऽपि स्त्री-पुं' सलिङ्गाकारमात्रमङ्गीकृत्य स्त्री सावुक्तौ' इति । सप्ततिकाचूर्णिकारस्तु - "असन्निपज्जत्तगस्स तिहिं वि वेएहि " इति वचनादसंज्ञिन्यपि लब्धिपर्याप्तके यथायोगं वेदत्रयस्याप्युदयमिच्छति' इत्यादि सप्ततिकाभाष्यवृत्तौ ।
यदि चाभिप्रायान्तरेणासंज्ञिनां केवलं नपुंसक वेदमधिकृत्य प्रकृताल्पतरबन्धकालचिन्तनीयस्तदा त्वसौ मार्गणाद्वये समयद्वयमेव प्राप्येतेत्येवं विवक्षाभेदेनाऽभिप्रायभेदेन वा स्वयमेव यथासम्भवं विभावनीयः प्रस्तुतकाल इति ।। ५७२-५७२॥
अथ शेषमार्गणासु सप्तप्रकृतिसत्काल्पतरस्थितिबन्धस्योत्कृष्टकालमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org