________________
मार्गणास्वायुर्वर्जानामल्पतरबन्धकाल० ] भूयस्काराधिकारे कालद्वारम
[ ४५१ नन्वेतासु निरयगत्योघादिशेषमार्गणासु कस्मात्सप्तानां मूलप्रकृतीनामुत्कृष्टो भूयस्कारस्थितिबन्धकालो द्वौ समयावेव, न पुनस्तदधिकस्त्रयः समयाश्चत्वारः समया वा ? इति चेद् , उच्यते, निरन्तरतृतीयसमयभूयस्कारो हि प्राग्दर्शितनीन्या य एकेन्द्रियादयो जीवा द्वीन्द्रियत्रीन्द्रियादितया जात्यन्तरे समुत्पद्यन्ते तेषां जायते, जात्यन्तरपरावृत्यादेविहाय तथास्वाभाव्येन निरन्तरं तृतीयादेभ यस्कारबन्धस्याऽल्पतरबन्धस्य वाऽसम्भवात् । जात्यन्तरपरावृत्तिर्हि भवक्षयमविना भाविनी । इत्थञ्च निरयगत्योघादिषु यासु मार्गणासु भवक्षयेण सममेव मार्गणाक्षयोऽपि नियमेन जायते तासु न सम्भवति निरन्तरस्तृतीयसमयभयस्कारस्थितिबन्धः, अतस्तासु सर्वनिरयभेद-सर्वदेवभेद-पञ्चमनोयोग-पञ्चवचोयोगी-दारिक-वैक्रिया-ऽऽहारका-ऽऽहारकमिश्रकाययोग-मनःपयेवज्ञानविभङ्गज्ञान-संयमोघ-सामायिक-छेदोपस्थापन-परिहारविशुद्धिकसंयम-देशसंयममार्गणासु द्वौ समयावेव निरन्तरभूयस्कारकालो दर्शितः, न पुनस्त्रयः समयाः चत्वारः समया वा, तृतीयसमनिरन्तरभूयस्कारासम्भवे चतुर्थसमयनिरन्तरभूयस्कारस्यापि सुतरामसम्भवात् । न च मा भवतु निरयगत्योघादौ मरणव्याघातेन मार्गणाविच्छेदान्निरन्तरस्तृतीयसमयभयस्कारः, किन्तु ये सम्यग्दृशो नारकादयो जीवास्तथास्वाभाव्येन निरन्तरसमयद्वयं भूयस्कारो निर्वापकृष्टतरं गुणस्थानकान्तरं स्पृशन्ति, तेषां तत्र नियमतोऽधिकस्थितिवन्धभावात्प्राप्स्यति निरन्तरस्तृतीयसमयभूयस्कार इत्यारेकणीयम् । यतो मिथ्यात्वादितथाविधगुणान्तरपरावृत्तेरनन्तरपूर्वसमयेषु तादृशजीवानां तथाविधहीनतरगुणान्तराभिमुखतयाऽऽन्तमु हर्तिकस्थितिबन्धा एव प्रवर्तन्ते, न पुनः सामयिकस्थितिबन्धाः । इत्थं च तादृशां जीवानां निरन्तरद्विसमयभयस्कारावेव न प्राप्यते । येषां पुनस्तथास्वाभाव्येन द्विसामयिकः सामयिको वा भयस्कारो जायते ते तु तदनन्तरसमये तथाविधहीनतरगुणान्तरमेव न गच्छन्ति,तत्कुतो निरयगत्योधादिमार्गणासु तादृशसम्यग्दृष्टयादिजीवानपेक्ष्यापि निरन्तरतृतीयसमयभूयस्कारस्थितिबन्धसम्भवः, न कुतश्चिदपि । अत एव सम्यग्मिथ्यात्व-सासादन-मार्गणयोरपि प्रकृतकालो समयद्वयमेवोक्तः । वैक्रियमिश्रकाययोगमार्गणायां प्रकृतग्रन्थाधिकृतविवक्षया भवप्रत्ययवैक्रियकाययोगोपेतजीवानामेव प्रवेशात्तेषां च मरणासम्भवेन जात्यन्तरपरावृत्तेरप्यसम्भवान्न प्राप्यत उक्ताऽधिको भूयस्कारस्थितिबन्धकालः । शेषेषु मनुष्यगतिभेदचतुष्क-सबैकेन्द्रिय-सर्वविकलेन्द्रियसर्वपृथिव्यादिवनस्पतिकायान्तभेदेषु यद्यपि भवक्षयेण समं मार्गणाक्षयो नाऽपि भवति, तथापि यदा भवक्षयेण समं जात्यन्तरपरावत्तिर्जायते तदा तु नियमेन मार्गणाक्षयोऽपि जायते, ततश्च न लभ्यते, निरयगत्योधादिमार्गणावन्निरन्तरतृतीयसमयभूयस्कारः, तदभावे चतुर्थसमयभूयस्कारश्चेति ॥५७१॥
तदेवमुक्तो मूलसप्तप्रकृतिसत्कभूयस्कारस्थितिबन्धस्योत्कृष्ट काल आदेशतः । साम्प्रतं सप्तानामल्पतरस्थितिबन्धस्योत्कृष्ट कालं दिदर्शयिषुराह
तिरियपणिदि-तसेसु सव्वेसुकाय-उरलमीसेसु। थी-पुरिस-णपुसेसुकसायचउग-दुअणाणेसु ॥५७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org