________________
४५० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां भूयस्कारबन्धकाल • जात्यन्तरपरावृत्यादिकारणान्तरसव्यपेक्षस्तृतीयसमयभूयस्कारो न लभ्यत इत्यतस्तथास्वाभाव्येन संक्लेशक्षयप्रयुक्त द्विसमयभूयस्कारमपेक्ष्य प्रकृतकालो भावनीयः । यद्वा मतिज्ञानादिमार्गणागतानां देशसंयतादिजीवानां देवगतावुत्पत्त्या तत्र प्रथमसमये भूयस्कारबन्धसम्भवेऽपि तथाविधानां प्राग्भवे भवचरमसमय एकस्यैव भूयस्कारस्य सम्भवात् तदपेक्षया प्रकृतबन्धकालो भावनीयः, केवलं संज्ञिमार्गणायां मार्गणान्तरादागच्छतामन्तरालगतावेकं समयमुत्पत्तिस्थानप्राप्तौ च द्वितीयसमयमित्येवं समयद्वयं नैरन्तर्येण भूयस्कारबन्धसम्भवात् प्रकारान्तरेणाऽपि द्वौ समयौ प्रकृतबन्धकालो द्रष्टव्यः। केचित्तु स्वस्थाने देशसंयमाद्यवस्थायां कालं कृत्वा देवगतावुत्पद्यमानानामपि मनुष्यादिभवद्विचरम-चरमसमययोस्तथास्वाभाव्येन भूयस्कारद्वयस्याविरोधात्प्रकृतसर्वमार्गणासु निरन्तरत्रिसमयभूयस्कारमपीच्छन्तीति ॥५७०॥
अथ शेषमार्गणासु सप्तप्रकृतीनां भूयस्कारस्थितिबन्धस्योत्कृष्टकालं दर्शयन्नेकामार्यामाह
कम्मण-गयवेएसुसुहुमा-ऽणाहारगेसु खलु समयो। भूओंगारस्स गुरू सेसासु भवे दुवे समया ॥५७१॥
(प्रे०) "कम्मणगयवेएसु” इत्यादि, कार्मणकाययोगा-ऽपगतवेदमार्गणयोः सूक्ष्मसम्परायसंयमा-ऽनाहारकमार्गणयोश्च प्रत्येकं मूलसप्तप्रकृतीनां भयस्कारस्थितिबन्धस्य "गुरु" त्ति एकजीवाश्रयो 'गुरु'-उत्कृष्टः कालः “खलु समयो” त्ति खलुशब्दस्यावधारणार्थत्वात् , एकः समय एत्र भवतीत्यर्थः । तत्र-कार्मणकाययोगानाहारकमार्गणयोरेकेन्द्रियादिभ्यश्च्युत्वा द्वीन्द्रियादितयोत्पद्यमानानां विग्रहगतौ प्रथमसमयजायमानबन्धमपेक्ष्य यदा द्वितीये समयेऽधिकबन्धकरणे भूयस्कारस्थितिबन्धो भवति, तदा एकसमयभयस्कारः प्राप्यते । अपगतवेद-सूक्ष्मसम्परायमार्गणयोरपि प्रत्येकं स्थितिबन्धानां मरणव्याघाताभावेऽन्तमुहूतं यावदविरततया प्रवर्तनात् श्रेणितोऽद्धाक्षयेण क्रमशः प्रतिपतन्तं जीवमपेक्ष्य स्थितिबन्धप्रारम्भप्रथमसमयसत्क एकसामायिको भूयस्कारस्थितिबन्धः प्राप्यते, तवं द्वितीयादिसमयेषु त्ववस्थितस्थितिबन्ध एव । मरणव्याघातेन निरन्तरं सम्भवन् हितीय समयभूयस्कारस्तु नापगतवेद-सूक्ष्मसम्परायमार्गणयोः, किन्तु पुरुषवेदा-ऽसंयममार्गणयोरित्येवमेकसमयादधिककालस्यासम्भव एव इति । उक्तशेषमार्गणास्वाह-"सेसास” इत्यादिना 'भओगारस्स गुरू' इत्यस्य देहलीदीपकन्यायेनात्रापि योजनाच्छेपासु नरकगत्योघाद्यकविंशत्यभ्यधिकशतमार्गणासु प्रत्येकं सप्तप्रकृतीनां भयस्कारस्थितिबन्धस्य 'गुरुः'-उत्कृष्टः कालो द्वौ समयो भवेदित्यर्थः।
तत्र शेषमार्गणा इमाः--अष्टौ नरकगतिभेदाः, चत्वारो मनुष्यगतिभेदाः, त्रिंशद्देवगतिभेदाः, सप्तैकेन्द्रियभेदाः, नव विकलेन्द्रियजातिभेदाः, पृथिवीकायादिवायुकायान्तानां प्रत्येकं सप्त सप्तेत्यष्टाविंशतिभेदाः,वनस्पतिकायमार्गणासत्का एकादश भेदाः, दश मनोयोगवचोयोगमार्गणाभेदाः,
औदारिक-चैक्रिय-वैक्रियमिश्रा-ऽऽहारका-ऽऽहारकमिश्रकाययोग--मनःपर्यवज्ञान-विभङ्गज्ञान-संयमोघसामायिक-छेदोपस्थापन-परिहारविशुद्धिकसंयम-देशसंयम-सासादन-मिश्रदृष्टिमार्गणाभेदाश्चेति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org