________________
मार्गणास्वायुर्वर्जानां भूयस्कारकाल० ] भूयस्काराधिकारे कालद्वारम्
[ ४४९ कायमार्गणाभेदेषु, काययोग-नपुंसकवेद-कषायचतुष्क-मन्यज्ञान-श्रुताज्ञाना-ऽसंयम-चक्षु-रचक्षुदर्शनाऽप्रशस्तकृष्णादित्रिलेश्या-भव्या-ऽभव्य-मिथ्यात्वमार्गणास्वित्येवमेतास्वेकविंशतिमार्गणासु ।
अयम्भावः-एतासु तिर्यग्गत्योपाद्यकविंशतिमार्गणासु प्रत्येकमेकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियाद्यन्यतमजातीयजीवानां पञ्चेन्द्रियजातीयजीवानां च समावेशेनैकेन्द्रियादितश्च्युत्वा पञ्चेन्द्रियतयोत्पद्यमानानामपि न प्रकृतमार्गणातः प्रच्युतिर्भवति, तथा च सत्योघवदेकेन्द्रियादिभवसत्कचरमविचरमसमययोः पञ्चेन्द्रियभवसत्कयोरन्तरालगत्युत्पत्तिस्थानप्राप्तिसमययोश्चेत्येव चतुषु समयेषु निरन्तरं भूयस्कारबन्धानां लाभसम्भवात् सप्तानां भूयस्कारवन्धस्योत्कृष्टकाल ओघवच्चतुःसमयप्रमाणोऽभिहितः । विशेषभावनात्वोधवत्स्वयमेव द्रष्टव्येति ।।५६७-५६८||
भूगारस्स तिसमया पणिदितिरियचउगे पणिदितिगे।
ओरालियमीसम्मि य थी-पुम-अमणेसु आहारे ॥५६९॥ (प्रे०) "भूगारस्से" त्यादि, प्रकृतानां सप्तानां मूलप्रकृतीनां प्रत्येकं "भूगारस्स" त्ति भवस्कारलक्षणम्य स्थितिबन्धस्य “तिसमय" ति उत्कृष्ट एकजीवाश्रयः कालस्त्रयः समया इत्यर्थः, । कासु मार्गणास्वित्याह--"पणिंदितिरियचउगे” इत्यादि, पञ्वेन्द्रियतिर्यग्चतुष्के, पञ्चेन्द्रियजातिभेदत्रिके, औदाकिमिश्रकाययोगे। चः समुच्चये । स्त्रीवेद-पुवेदा-ऽसंशिष्वाहारिमार्गणायां चेत्यर्थः । तत्र-चतुर्यु पञ्चेन्द्रियतिर्यग्भेदेषु, त्रिषु पञ्चेन्द्रियजातिभेदेषु स्त्रीवेदपुरुषवेदमार्गणयोश्च प्रत्येकं संज्ञिनामसंज्ञिपञ्चेन्द्रियाणां च जीवानां समावेशादसंज्ञिभ्यः संज्ञितयोप्यमानानां प्रथमद्विसमयभूयस्कारावसंज्ञिभवचरमसमय द्वयसत्को, तृतीयसमयभूयस्कारस्तु संज्ञिभवप्रथमसमयमत्कः, इत्येवमुत्कृष्टतस्त्रिसमयाः सप्तानां निरन्तरभ्यस्कारवन्धकालः प्राप्यते । असंज्ञिमार्गणायां तु संज्ञिनामसमावेशेऽप्यन्यान्यजातीयानां जीवानां समावेशेनैकेन्द्रियादिभ्यो द्वीन्द्रियादितयोत्पद्यमानजीवैर्निरन्तरतृतीयसमयकृतभ्यस्कारमपेक्ष्यासो बोद्धव्यः । औदारिकमिश्रकाययोगमार्गणायां तूभयथाऽप्युपपद्यत इति यथेच्छं भावनीय इति ।।५६९।।
णाणतिगे ओहिम्मि य सुहलेसा-सम्म-खइ-उवसमेसु।
वेअगसण्णीसु गुरू भूओगारस्स समया दो ॥५७०॥ (प्रे०) “णाणतिगे” इत्यादि, मतिज्ञान-श्रुताज्ञाना-ऽवधिज्ञानमार्गणारूपे ज्ञानमार्गणात्रिके, अवधिदर्शनमार्गणायाम् । चः समुच्चये । तेजः-पद्म-शुक्लायत्रिशभलेश्या-सम्यक्त्वौघ-क्षायिकसम्यक्वी-पशमिकसम्यक्त्वमार्गणासु क्षायोपशमिकसम्यक्त्व-संज्ञिमार्गणयोश्चेत्येतासु द्वादशमार्गणासु प्रत्येकं “गुरू भूओगारस्स समया दो"त्ति सप्तप्रकृतीनां भूयस्कारस्थितिबन्धस्य 'गुरु'-उत्कृष्टः कालो द्वौ समयौ । एतासु प्रत्येकं संश्यसंज्ञिनां भिन्नभिन्नजातीयानां या जीवानामसमावेशेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org