________________
ओधत आयुर्वर्जानां भूयस्कारादिकाल० ] भूयस्काराधिकारे कालद्वारम
[ ४४७ ऽप्यनन्तरे भवचरमसमये तथास्वाभाव्येनाधिकतरविशुद्धाध्यवसायप्राप्त्या व्यवच्छिन्नः, हीनतरस्थितिबन्धश्च प्रवृत्तः; इत्येवं निरन्तरौ द्वावल्पतरौ तु जात्यन्तरपरावृत्यादिकारणान्तरं विनेव प्राप्तौ, तदनन्तरसमये तु मृत्वाऽन्तरालगतौ वर्तमानस्योत्पत्तिस्थानं वा प्राप्तस्य तस्य चतुरिन्द्रियादिभवप्रथमसमयादेव चतुरिन्द्रियादिवन्धप्रायोग्यः स्थितिबन्धो भवति, न पुनः पूर्ववद्विग्रहगतावसंज्ञिपञ्चेन्द्रियप्रायोग्योऽपि; इत्थं त्रय एव निरन्तरा अल्पतरस्थितिबन्धाः प्राप्यन्ते । यदि चासौ प्रागसंज्ञिपञ्चेन्द्रियतयोपित्सुरासीत् , मृत्वा चासंज्ञिपञ्चेन्द्रियतयोत्पन्नस्तहिं तस्य विग्रहगतावसंज्ञिपञ्चेन्द्रियप्रायोग्यस्थितिबन्धो जायते,तथापि तत ऊर्ध्वमुत्पत्तिस्थानप्राप्तस्याऽपि तस्यासंक्षिपञ्चेन्द्रियप्रायोग्यपूर्वप्रवृत्तस्थितिबन्धस्यैव प्रवर्तनात् निरन्तरचतुर्थाल्पतरवन्धस्यासम्भव एव । इत्थं ह्येकेन्द्रियाद्यसंज्ञिपञ्चेन्द्रियपर्यन्तानां भवप्रथमसमयप्रारब्धस्यैव स्थितिबन्धस्य द्वितीयादिसमयेषु प्रवर्तनात् निरन्तरास्त्रय एवाल्पतरवन्धाः प्राप्यन्ते, संज्ञिपञ्चेन्द्रियाणां तु केषाश्चिदेकेन्द्रियविकलेन्द्रियेभ्य आगतानामन्तरालगतो भवप्रथमसमयेऽसंज्ञिपञ्चेन्द्रियप्रायोग्याधिकस्थितिबन्धस्य भावादुत्पत्तिस्थानप्राप्तौ भवद्वितीयसमये संक्षिपञ्चेन्द्रियप्राग्योग्याधिकतरस्थितिबन्धस्य च भावादल्पतरबन्धस्योत्कृष्टकालापेक्षया भूयस्कारस्योत्कृष्टबन्धकालः समयाधिकः प्राप्यत इति । इदं हि दिङ्मात्रम् , यतो यथा संज्ञिपञ्वेन्द्रियाणां तत्र तत्रोत्पच्या हीनतरस्थितिबन्धभावात् पूर्ववत् त्रिसमया अल्पतरस्थितिबन्धस्य निरन्तरबन्धकालो लभ्यते, तथैकेन्द्रियतया वा द्वीन्द्रियतया वा त्रीन्द्रियतया वोत्पित्सुचतुरिन्द्रियापेक्षयाऽप्यसौ निरन्तरत्रिसमयाल्पतरबन्धकालोऽवाप्यते । एवमेव त्रीन्द्रियादीनपेक्ष्यापि बोद्धव्यम् । भूयस्कारसत्कचतुःसमयोत्कृष्टबन्धकालस्तु तथा नोत्पद्यते । कुतः ? तृतीयसमयभाव्यसंज्ञिपञ्चेन्द्रियप्रायोग्यबन्धप्रयुक्तात् निरन्तरप्राप्ततृतीयसमयभूयस्कारादुर्ध्वमप्यव्यवहितोत्तरसमय उत्पत्तिस्थानप्राप्तो यस्य संज्ञिपञ्चेन्द्रियबन्धप्रायोग्यान्तःकोटीकोटीसागरोपमप्रमाणस्थितिबन्धस्य सम्भवात निरन्तरश्चतुर्थसमयबन्धकालो लभ्यते, असोऽन्तःकोटीकोटीसागरोपमस्थितिबन्धो द्वीन्द्रियादितयोत्पित्सूनामेकेन्द्रियाणां न भवति, ततश्च तदपेक्षस्य निरन्तरचतुर्थभूयस्कारस्थितिबन्धस्याप्यलाभादुस्कृष्टकालस्त्रयः समया एव सम्भवति, न पुनश्चत्वारः समया इत्यलं विस्तरेण ।।
अथाऽवस्थितस्थितिबन्धस्योत्कृष्टकालमाह-"अवट्ठियस्स भवे" इत्यादि, सप्तानामवस्थितस्थितिबन्धस्य 'परम:'-उत्कृष्टः कालो 'भिन्नमुहूर्तम्'-अन्तमुहूतं भवेदित्यर्थः । कुतः ? इति चेत् , एकस्य नियतस्थितिबन्धस्योत्कृष्टतोऽप्यन्तर्मुहूर्तादूचं नियमतः स्थितिवन्धान्तरतया परावर्तनात् ।
. इदमुक्तं भवति-एकैकस्थितिबन्धप्रायोग्यानामध्यवसायानां नियमतः प्रत्यन्तमुहूर्त परावत्तिर्भवति, अतस्तन्निबन्धनाः स्थितिबन्धा अप्युत्कृष्टतोऽन्तमुहूर्तमवस्थाय परावृत्त्य पूर्वापेक्षया हीना अधिका वा नियमन जायन्ते, तथा च सति समयमेकं भूयस्कारस्याल्पतरस्य वा स्थितिबन्धस्य भावादवस्थितस्थितिवन्धो व्युपरमते, इत्येवं प्रागुक्तनीत्याऽवस्थितस्थितिवन्धस्योत्कृष्टो बन्धकालोऽन्तर्मुहूर्तमेव सम्पद्यते, नाधिक इति । अथावक्तव्यस्य प्रकृतबन्धकालमाह-"वत्तव्वस्स" इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org