________________
४४६ ]
बंधविहाणे मूलपयडिठिइबंधो [ओघत आयुर्वर्जानां भूयस्कारादिकाल० "चत्तारि" इत्यनेनान्वयस्ततश्चत्वारः समयाः । कस्येत्याह-"भूओगारस्स" त्ति भयस्कारलक्षणस्थितिवन्धस्य, सप्तप्रकृतीनामित्यनवर्तते । भूयस्कारादिस्थितिबन्धानां ह्रस्वकालस्तु सुगमः ।
__ भूयस्कारस्थितिबन्धस्योत्कृष्टकालस्त्वित्थं भावनीयः-कश्चिदेकेन्द्रियो विकलेन्द्रियो वा जीवो भवद्विचरमसमये पूर्वप्रवृत्तजघन्यादिस्थितिबन्धप्रायोग्यविशुद्धः क्षयात्तं जघन्यादिस्थितिबन्धं समाप्य नव्यं पूर्वापेक्षयाधिकं स्थितिबन्धं प्रारभते तदा तस्य प्रथमसमयभूषस्कारः, तदनन्तरसमये पुनरपि तथास्वाभाव्येन संक्लेशवृद्धेः पूर्वसमयापेक्षयाऽधिकस्थितिवन्धं कुर्वतस्तस्य निरन्तरो द्वितीयसमयभूयस्कारो लभ्यते,ततश्चानन्तरसमये मृत्वा स जीवः संज्ञिपञ्चेन्द्रियतयोत्पद्यमान एकसामयिक्यां विग्रहगतौ वर्तमानोऽद्याप्युत्पत्तिस्थानमप्राप्तः सन्नसंज्ञिपञ्बेन्द्रियप्रायोग्यं स्थितिबन्धं विदधाति, तदा तस्य निरन्तरस्तृतीयसमयभयस्कारो भवति, तदनन्तरसमये तूत्पत्तिस्थानं प्राप्य संक्षिपञ्चेन्द्रियप्रायोग्यमन्तःकोटीकोटीसागरोपमप्रमाणं स्थितिवन्धं कुर्वतस्तस्य निरन्तरचतुर्थसमयभूयस्कारबन्धः प्राप्यते; न पुनस्ततोऽप्यूर्ध्वम् । कुतः ? जात्यन्तरपरावृत्यादेरसम्भवात् ।
इदमुक्तं भवति-एकेन्द्रियाद्यन्यतमजातीयस्य कस्यापि जीवस्य जात्यन्तरपरावृत्त्यादिकारणान्तरादृतेऽपि तथास्वाभाव्येनैवोत्कृष्टतो निरन्तरं समयद्वयमन्यान्यस्थितिबन्धप्रायोग्याध्यवसायपरावर्तनात् निरन्तरौ भूयस्कारावल्पतरौ वा प्राप्येते, तदूर्ध्वं तु जात्यन्तरपरावृत्यादिना निरन्तरं भूयस्कारादिप्राप्तिर्भवति, न पुनर्जात्यन्तरपरावृत्याद्यभावेऽपि । प्रकृतेऽपि दृष्टान्तीकृतजीवस्यैकेन्द्रियाद्यवस्थायां तथास्वाभाव्येन भूयस्कारद्वयभवनादनन्तरं जात्यन्तरप्राप्तौ विग्रहगतौ पूर्यापेक्षयाऽधिकस्थितिबन्धकरणात्ततीयो निरन्तरोभयस्कारोलब्धः, तत ऊर्ध्वमपि संज्ञितयोत्पत्तिस्थानरूपकारणान्तरप्राप्त्याऽधिकस्थितिबन्धभावान्निरन्तरश्चतुथों भयस्कारः प्राप्तः; इत ऊर्ध्वन्तु निरन्तरे पञ्चमे समये न सम्भवति जात्यन्तरप्राप्त्यादिकारणान्तरम् , तदभावे तु संज्ञिभवद्वितीयसमयप्रवृत्तस्याधिकतरस्थितिबन्धस्यैव तृतीयादिसमयेषु प्रवर्तनादवस्थितबन्धः प्रवर्तते, न पुनर्निरन्तरः पञ्चमादिभूयस्कारोऽपि । इत्येवं निरन्तर चतुर्थभ्यस्कारस्थितिबन्धादूर्ध्वमनन्तरसमये जात्यन्तरपरावृत्त्याद्यधिकस्थितिबन्धप्रयोजकानामन्यतरस्याऽप्यसद्भावादौधिकमयस्कारस्थितिबन्धस्योत्कृष्टो पि कालश्चत्वारः समया एवाभिहित इति । अनया नीत्योत्तरत्राऽपि भयस्काराल्पतरयोः समयद्वयकालसद्भावे तौ द्वौ समयो तत्स्वाभाव्येन संक्लेशपरावृत्त्या भावनीयौ, समयद्वयादधिककालसद्भाचे तु तत्र तृतीयादिसमयभूयस्कारादौ जात्यन्तरपरावृत्त्यादेः प्रयोजकता द्रष्टव्येति ।।
___अथाल्पतरस्थितिबन्धस्योत्कृष्टकालमानमाह-"अप्पयरस्से" त्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनामल्पतरस्थितिबन्धस्योत्कृष्टकालस्त्रयः समयाः । अयमपि यथोक्तनीत्या प्राप्यते, नवरं वैपरित्येन भावनीयः । तथाहि-चतुरिन्द्रियादितयोपित्योः कस्यचित्संज्ञिपञ्वेन्द्रियजीवस्य भवद्विचरमसमयेऽन्तमुहूर्तात्प्रवृत्तस्थितिबन्धः स्वप्रायोग्यसंक्लेशाद्धाक्षयाद्विरतः सन् पूर्वापेक्षया हीनः प्रवर्तयितु लग्नः । कस्मात् ? पूर्वापेक्षया विशुद्धस्याभिनवाध्यवसायस्य प्राप्तेः । असौ हीनस्थितिबन्धो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org