________________
ओघत आयुर्वर्जानां भूयस्कारादि० ] भूयस्काराधिकारे कालद्वारम्
[ ४४५ द्विचरमसमये प्रवृत्तमनोयोगादेवितीयसमयापेक्षयाऽपि प्राप्यते, तृतीयसमये मार्गणाविच्छेदात् । इत्येवमन्यथाऽपि भावनीय इति ।
ननु मनोयोगादिमार्गणास्थानानामिव स्त्रीवेदादिमार्गणास्थानानामप्यैकजीवाश्रिता जघन्यकायस्थितिः समयमात्रा भवति । उक्तं च जीवसमासे-'मण-वइ-उरल-विउब्बिय-आहारय-कम्मजोग-अणरि-त्थी। संजमविभाग-विन्भंग-सासाणे एगसमयं तु' ।।२३६।। इति । तत्कथमेतासु स्त्रीवेदादिमार्गणास्वप्यायुयोऽल्पतरस्थितिबन्धकालो जघन्यपदे समयमात्रो नोक्तः ? इति चेद, उच्यते, स्त्रीवेदादीनामेकजीवाश्रया जघन्यकायस्थितिस्तूपशान्ताद्धाक्षयेण प्रपततां जीवानां स्त्रीवेदोदयादनन्तरसमये मरणव्याघाते समुपजात एवं प्राप्यते, न च तदानीं तेषामायुन्धसम्भवः, आयुषो जघन्यावावाया अप्यन्तमुहूर्तत्वेन तावदायुष्यवशेषे पूर्वमेवाऽऽयुर्वन्धसमाप्तः । मनोयोगादिमार्गणास्तु मरणव्याघाताभावेऽपि स्वीयाद्धाक्षयादुत्कृष्टतोऽप्यन्तमुहर्तेऽतिक्रान्ते नियमेन योगान्तरतया परावर्तन्ते, अतो मनोयोगादिवर्जासु समयमात्रजवन्यकास्थितिकास्वपि स्त्रीवेदादिषु मार्गणास्वायुषोऽल्पतरस्थितिबन्धस्य जघन्यकालः समयो नोक्तः, मनोयोगादिषु तूक्तः ।
इदन्तु बोध्यम्-सासादनस्य जघन्यकायस्थितियद्यपि मरणव्याघातं विनाऽपि समयमात्रा प्राप्यते, तथापि सासादनमार्गणायां प्रारब्धायुर्वन्धस्य सास्वादनमार्गणायामेव समाप्तेरल्पतरस्थितिबन्धकालः समयो न प्राप्यते, किन्त्वन्तमुहूर्तमेव प्राप्यते । ननु सासादनमार्गणायां प्रारब्धायुबन्धः कस्मात्सास्वादनमार्गणायामेव समाप्यते, न पुनर्मनोयोगादिवन्मार्गणान्तरं प्राप्याऽपि ? इति चे, आयुवैन्धस्य घोलनापरिणामप्रायोग्यतया निरन्तरमनन्तगुणक्रमेण संक्लिश्यमानायां मिथ्यावाभिमुखावस्थायां तद्वन्धस्य विरुद्धतया पूर्वमेव तत्समाप्तरावश्यकत्वादिति ॥५६३-५६४॥
तदेवमुक्त आयुपो भूयस्कारादिस्थितिबन्धकाल ओघत आदेशतश्चोभयथापि । साम्प्रतं शेषसप्तकर्मणां तं व्याजिहीपु रादौ तावदोघत आह
भूओगाराईणं चउण्ह सत्तण्ह होअइ जहण्णो। समयो परमो समया भूओगारस्स चत्तारि ॥५६५॥ अप्पयरस्सुक्कोसों समया तिणि उ अवट्ठिअस्स भवे । भिन्नमुहुत्तं परमोऽवत्तब्वस्स समयो णेयो ॥५६६॥
(प्रे०) "भूओगाराईणं” इत्यादि, “सत्तण्ह" ति आयुर्विषयेऽनन्तरमेवोक्तत्वादायुर्वर्जानां सप्तानां मूलप्रकृतीनां "भूओगाराईणं चउण्ह" ति भूयस्कारा-ऽल्पतरा-ऽवस्थिता-ऽवक्तव्यस्थितिबन्धलक्षणानां चतुर्णां प्रत्येकम् "होअइ जहण्णो समयो" त्ति जघन्यः-'ह्रस्वः' कालः समयो भवति । “परमो” त्ति 'परम:'-दीर्घः कालः “समया" ति अस्य परेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org