________________
४४४ ]
बंधाणे मूलपडि ठिइबंधो [ आयुषोऽल्पतराऽवक्तव्यस्थितिबन्ध०
अयम्भावः- आयुर्बन्धः कादाचित्कस्तथा प्रारब्धः सन्नन्तमुहूर्त प्रवृत्यैव विरमति । उक्तञ्चावश्यकचूर्णावुपोद्घातनिर्युक्तौ - 'सव्त्रजीवाणं आउयंधो अणाभोगभिनिव्वित्तिओ, तेण सो अंगेमुहुत्तिओ' इति । इत्थं च तत्यारम्भेऽवक्तव्य स्थितिबन्धो लभ्यते, द्वितीयसमयात्तु समयसमयहीयमानावात्रापेक्षयान्तमुहूर्तं यावत्प्रतिसमयं हीन-हीनतरादिस्थितिबन्धलाभान्निरन्तर मल्पतरबन्धाः प्राप्यन्ते, अतोऽल्पतरस्थितिवन्वस्य जघन्य उत्कृष्टो वा कालोऽन्तर्मुहूर्त प्रमाणस्तथाऽवक्तव्यस्थितिबन्धस्य त्वजघन्यानुत्कृष्टः समयप्रमाण एव कालो लभ्यत इति ।
ननु सर्वे रामपि जीवानां समयमात्रप्रवर्तनाद् यथाऽऽयुषोऽवक्तव्यस्थितिबन्धस्य कार: सर्वार्थसिद्धदेवानां भवस्थितिवदजघन्यानुत्कृष्टकालतया दर्शितस्तथैवाऽऽयुपोऽल्पतरस्थितिबन्धोऽपि सर्व मुहूर्तमेव प्रवर्तते, तत्कथमसावप्यजघन्यानुकृष्टान्तमुहूर्तं नाभिधीयते ? इति चेद्, अन्तर्मुहूर्तात्रस्यापि तस्य जघन्योत्कृष्टभेदभिन्नत्वात्, यत आयुर्वन्धाद्वाऽन्तमुहूर्तमात्राऽपि कदाचिद्धस्वा भवति कदाचित्तु दीर्घा, अत एव श्रीप्रज्ञापना गमायुषो जघन्यस्थितिबन्धस्वामित्वं प्रदर्शनावसरे श्रीमताऽऽर्यश्यामपादेनाऽऽयुर्वन्धाद्वायाः सर्वमहच्चविशेषणमुपात्तम् । तथा चोक्तम्- 'सव्वसहती आउयधद्वार इति । इत्येामायुर्वन्धाद्धायाः सर्वत्रान्तर्मुहूर्तमात्रत्वेऽपि कुचिस्वत्वात् कुवितु दीर्घत्वादायुरोऽल्पतरस्थितिबन्धकालोऽन्तमुहूर्तमात्रोऽपि कुत्रचित्स्तोकः, कुत्रचिवधिको भवति इत्यतोऽसाववक्तव्य स्थितिबन्धकालवद जघन्यानुत्कृष्टो वक्तुमनुचितः, ततश्च जघन्योत्कृष्टभेदेनैव प्रतिपादित इति ।
अथ मार्गणास्थानेषु प्रस्तुतस्यानु भूयस्कारादेः कालं दिदर्शयिषुर्लाघवार्थं सापवादमतिदिशति - "एमेव सव्वासु" मित्यादि, अक्षरार्थस्तु सुगमः ।
भावार्थस्त्वयम् - पञ्चमनोयोग भेदेष्वेक जीवाश्रयमार्गणाजघन्यकायस्थितेः समयप्रमाणत्वात्तदपेक्षया प्रकृतकालोऽपि समयमात्रः प्राप्यते, एवं वचोयोगभेदेष्वऽपि । यद्वा पञ्चमनोयोगपञ्चवचोयोग-काययोगसामान्याऽऽहारका ऽऽहारकमिश्र-वैक्रियौ-दारिककाययोग-क्रोधादिचतुःकपायलक्षणास्वपवादविषयभृतास्वेकोनविंशतिमार्गणासु प्रत्येकं पूर्वप्रवृत्तमनोयोगादिना जीवेनाऽपि यदा मार्गणादिचरमसमय आयुर्वन्धः प्रारभ्यते तदा तस्य प्रस्तुतमार्गणायां समयद्वयमायुर्वन्धः प्रवर्तते, तत्र प्रथमे समयेऽबन्धादुत्तरमायुर्वघ्नतोऽवक्तव्यः, द्वितीयसमये तु वेद्यमानायुरवशेपलक्षणाया अवाधाया समयमात्र परिक्षयात् तदधीनावा आयुषोऽवस्थानयोग्यतालक्षणबध्यमानस्थितेरपि हीनभावादल्पतरबन्धः । तदनन्तरसमयेषु यद्यपि तस्य जीवस्याऽल्पतरस्थितिबन्धो विद्यते एव, तथाऽपि ना प्रकृतमार्गणाविषयः, तदानीं मनोयोगादिविवक्षितमार्गणातो बहिर्भावात्तस्य । इत्थं हि तारौ - जर्मनोयोगादिमार्गणाद्विचरमसमयारब्धायुर्वन्धमपेक्ष्य मनोयोगाद्यकोनविंशतिमार्गणास्वपि प्रकृतबन्धकालः समयमात्रः प्राप्यते, न शेषासु । अयमेत्र समयमात्रोऽल्पतरबन्धकाल आयुर्वन्धाद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org