SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ओघादेशत आयुषोऽल्पतरावक्तव्य० ] भूयस्काराधिकारे कालद्वारम् [ ४४३ शमका एव, पञ्चेन्द्रियोघ-पर्याप्तपञ्चेन्द्रिय-त्रसौघ-पर्याप्तत्रसकाय-काययोगसामान्य-मत्यादित्रिज्ञान-चक्षुरादित्रिदर्शन-शुक्ललेश्या-भव्य--सम्यक्त्वौघ-क्षायिको--पशमिकसम्यक्त्व--संख्या-ऽऽहारिरूपास्वष्टादशमार्गणासु तु भवप्रथमसमयवर्तिनो देवा अपि । इत्थमेव लोभमार्गणायामपि, नवरं मोहनीयकर्मणोऽवक्तव्यस्थितिवन्धस्वामिनः, न पुनः शेषकर्मणामपि, लोभमार्गणायां शेषकर्मणामवक्तव्यस्थितिवन्धस्यैवासचात् । सप्तकर्मणां भूयस्कारादिशेषत्रिविधस्थितिवन्धस्वामिनस्तु तत्तन्मार्गणागता अन्यतमजीवा भवन्ति । अत्र व्याख्यानतो विशेषप्रतिपत्तेरल्पतरस्थितिबन्धस्वामितया प्रतिपतन्त उपशमका वर्जनीयाः, एवं भूयस्कारस्थितिवन्धस्वामितया श्रेणिं समारोहन्तः क्षपका उपशमकाश्च वर्जनीयाः। आयुषोऽल्पतराऽवत्तव्यास्थतिबन्धस्वामिनस्तु त्रिपष्टयभ्यधिकशतमार्गणास्वोघवदन्यतमा जीवा ये केचनायुःप्रकृतिवन्धस्वामिनो भवन्ति ते सर्वयिति विज्ञेयमिति ॥५६१-५६२॥ तदेवमभिहिता आदेशतोऽपि मूलाष्टकर्मणां भूयस्कारादिलक्षणस्थितिबन्धस्वामिनः, तस्मिँ. वाभिहिते गतं द्वितीयं स्वामित्वद्वारम् ।। ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे द्वितीयं स्वामित्वद्वारं समाप्तम् ।। ॥ अथ तृतीयं कालद्वारम् ॥ साम्प्रतं “काल' इत्यनेनोद्दिष्ट एकजीवाश्रिते कालद्वारे मूलकर्मणां भूयरकादिस्थितिबन्धानामेकजीवाश्रयं कालं विभणिपुरल्पवक्तव्यत्वादादौ तावदायुपो भूयस्कारादिस्थितिबन्धस्य जघन्योत्कृष्टभेदभिन्न कालमोघत आदेशतवाह आउस्स जहणियरो अप्पयरस्स हवए मुहुत्तंतो। कालोऽवत्तव्यस्स उ समयो एमेव सव्वासु॥५६३॥ णवरि जहण्णो समयो अप्पयरस्सऽत्थि पणमणवयेसु। कायु-रल-विउव्वेसुआहारदुगे कसायेसु॥५६४॥ (प्रे०) "आउस्स जहणियरो" इत्यादि, आयुःकर्मणः "अप्पयरस्स” त्ति अल्पतरस्थितिबन्धस्य जयन्यः 'इतरः'-उत्कृष्टश्च कालो "हवए मुहत्तंतो” ति अन्तमुहूतं भवति, एकजीवाश्रयौ जघन्योत्कृष्टकालौ प्रत्येकमन्तमुहूर्त भवत इत्यर्थः । “ऽवत्तव्वस्स उ” त्ति अनन्तरोक्तस्य 'कालो' इति शब्दस्य तत आरभ्य कालद्वारप्रान्तं यावदनुवनिादवक्तव्यस्थितिबन्धस्य कालस्तु "समयो" त्ति अजघन्यानुत्कृष्ट एकः समय एव भवति, तुशब्दस्यात्रावधारणार्थत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy