SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४४२] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वष्टानां भूयस्कारादिस्वामि० एवं सब्बासु णवरि पढमखणसुरोत्ति णेव वत्तव्यं । णरतिग-पणमणवयुरल-अवेअ-मणणाण-संयमेसु च ॥५६२॥ (प्रे०) “एवं सव्वासु” इत्यादि, तत्रैवंशब्दस्य सादृश्यार्थकत्वेनानन्तरं प्रथमे सत्पदद्वार ओघतः सत्तया प्रतिपादितानां सप्तकर्मणां उपस्कारादिचतुर्विधस्थितिबन्धानामायुपोऽल्पतराऽवक्तव्यद्विविधस्थितिवन्धयोध स्वामिनो यथौघचिन्तायां दर्शितास्तथा “सव्वासु" ति निरयगत्योधादिषु सर्वासु मार्गणासु, वक्तव्या इति शेषः । यासु मार्गणासु येषां कर्मणां भूयस्कारादयो यावन्तः स्थितिबन्धाः सन्तः प्रतिपादितास्तासु मार्गणासु तेषां कर्मणां तत्तद्भयस्कारादिसत्पदानां स्वामिन ओघवद्वक्तव्या इतिभावः । इत्येवं सामान्यतोऽतिदिष्टे या काचिदतिप्रसक्तिस्तां निराचिकीपुराह"णवरि" इत्यादि, अक्षरार्थस्तु सुगमः । भावार्थः पुनरयम्-अनन्तरोक्तात् ‘एवं सव्वासु' इत्यौत्सर्गिकवचनात् मनुष्यगत्योधादिपञ्चत्रिंशन्मार्गणासु ज्ञानावरणादीनामवक्तव्यबन्धसद्भावेन श्रेणितः पतन्त उपशमकाः प्रथमसमयदेवाश्चेति वक्तव्यं भवति, नवरं मनुष्यगत्योध-पर्याप्तमनुष्य-योनिमन्मनुष्य-पञ्चमनोयोग-पञ्चवचोयोगौ-दारिककाययोगा-ऽपगतवेद--मनःपर्यवज्ञान-संयमोघमार्गणानां पञ्चेन्द्रियादिमार्गणावद् देवगतिमनुष्यगतिद्वयव्यापित्वाभावात्तासु भवप्रथमसमयदेवा अवक्तव्यबन्धस्वामितया नैव वक्तव्याः । कुतः ? देवगतिमनुष्यगतिद्वयव्यापिनीषु पञ्चेन्द्रियोघादिमार्गणास्वेव मार्गणानुरूपपञ्चेन्द्रियत्वादिविवक्षितकपर्यायापन्नानां जीवानां तत्तत्कर्मणामवक्तव्यबन्धप्रयोजकयोः स्थितेरबन्ध-बन्धयोर्लाभेन तास्वेव तेषामवक्तव्यस्थितिबन्धस्वामित्वादिति । तदेवमपोदिते मनुष्यगत्यादिसप्तदशमार्गणास्वायुर्वर्जानां सप्तकर्मणामवक्तव्यस्थितिबन्धस्वामिनः श्रेणितः पतन्त उप ___ अष्टमूलप्रकृतीनां भूयस्कारादिस्थितिवन्धस्वामित्वप्रदर्शकं यन्त्रम् ओघतः-आयुर्वर्जसप्तानामवक्तव्यस्थितिबन्धस्वा- ) श्रेणितः पतन्त उपशमकाः स्थितिबन्धप्रथमसमये, मिन: अबन्धकाले च्युत्वा देवतयोत्पन्ना भवप्रथमसमये वर्तमाना जीवाश्च, आयूर्वर्जसप्तानां शेषत्रिविस्थितिधिबन्ध यथासम्भवं भूयस्कारा-ऽल्पतरबन्धकतया क्षपकोस्वामिनः-- पशमक-सम्यक्त्वाभिमुखादिजीवान् विहाय संसार स्था अन्यतमजीवाः, पायूषोऽल्पतरा-ऽवक्तव्यद्विविधस्थिति आयुर्बन्धकाः संसारस्था अन्यतमजीवाः, . - बन्धस्वामिनः-- प्रादेशतः- सर्वासु मार्गणासु ज्ञानावरणादिसर्वमूलप्रकृतीनां सर्वेषां भूयस्कारादिस्थितिबन्धसत्पदानां स्वामिनः ओघवत् , केवलम् .... मनुष्योध-तत्पर्याप्त-मानुषी-सर्वमनोवचोयोगभेदो-दारिककाययोगा-ऽपगतवेद-मनःपर्ययज्ञान-संयमौघलक्षणासु सप्तदशमार्गरणास्वायुर्वर्जसप्तानामवक्तव्यस्थितिबन्धस्वामिनः श्रेणितः पतन्त उपशमका एव, न पुनर्देवा इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy