________________
॥ अथ द्वितीयं स्वामित्वद्वारम् ॥ अथ “यथोद्देशं निर्देश” इति न्यायेन क्रमप्राप्ते स्वामित्वद्वार आदी तावदोघतोऽष्टमूलप्रकृतीनां भयस्कारादिस्थितिबन्धस्वामिनः प्ररूपयन्नाह
भूओगाराईणं सत्तण्हं बंधगो उ अण्णयमो । तिण्ह पयाणं दोण्ह वि आउस्स पयाण णायब्बो ॥५६०॥ उवसामगो पडतो सेढीए बंधगो णरो अहवा ।
पडमखणसुरो णेयोऽवत्तव्वस्स खलु सत्तण्हं ॥५६१॥
(प्रे०) 'भूओगाराईणं” इत्यादि, तत्र “भूओगाराईण” मित्यस्य "तिण्ह पयाण" मिति परेणान्चयः, ततश्च “सत्तण्ह" ति आयुर्वानां सप्तानां मूलप्रकृतीनां भूयस्कारादीनां भयस्कारा-ऽल्पतरा-ऽवस्थितलक्षणानांत्राणां पदानां'-स्थितिबन्धविशेषाणां "बंधगो उ अण्णयमा" त्ति 'बन्धकः'-स्वामी त्वन्यतमः,नारक-तिर्यग्-मनुष्य-देवानामिति शेषः । यथासम्भवमिति गम्यम् । कथम् ? श्रेण्यारोहा-ऽवरोह-मिथ्यात्वाभिमुखाद्यवस्थाविशेषेषु क्षपकोपशमकादिजीवानां भवस्कारा-5ल्पतरस्थितिबन्धाभावेन तेषां वर्जनार्थमिति । कुतोऽन्यतमः ? एकस्थितिबन्धस्थानप्रायोग्याध्यवसायानामन्तमुहर्तादधिकमनवस्थानेनोत्कृष्टतोऽपि प्रत्यन्तमुहत स्थितिबन्धवृद्धिहान्योः सर्वजीवानां भावात् । अथायुःकर्मण आह-"दोण्ह वि" इत्यादि, 'बंधगो उ अण्णयमो' इत्यत्रापि संबध्यते, अत आयुषोऽल्पतरा-ऽवक्तव्यस्थितिवन्धरूपयोद्वयोरपि पदयोर्बन्धकः-स्वाम्यन्यतमगतिको जीवो ज्ञातव्य इति । सुगमं चैतत् सत्पदविवरणागतार्थ चेति । अथ सप्तानामवक्तव्यस्थितिबन्धस्य स्वामिनो दर्शयन्नाह-"उवसामगो” इत्यादि, सप्तानां प्रकृतीनामवक्तव्यस्थितिबन्धस्य 'बन्धकः'-स्वामी "सेढीए” त्ति उपशमश्रेणितः पतन्नुपशामको 'नरः'-मनुष्योऽथवा “पढमखणसुरो" ति उपशमश्रेणाववन्धकावस्थायां मृत्वा यो देवगतौ देवतयोत्पन्नः स प्रत्यग्रो-पन्नः 'प्रथमक्षणसुरः'देवायुःप्रथमसमयवेदको देवः । अत्राऽथवा शब्दो समुच्चये, न पुनर्मतान्तरे; एवं खलुशब्दोऽवधारणार्थो जातावेकवचनं च । ततोऽयमर्थः-ओघत उपशान्ताद्धाक्षयात्पतन्त उपशमकाः, उपशान्ताद्धायां कालकरणेन देवतयोत्पन्ना देवाश्च सप्तकर्मणाम् , तथा सूक्ष्मसम्परायगुणस्थाने भवक्षयेण देवत्योत्पन्ना मोहनीयकर्मणोऽवक्तव्यस्थितिवन्धस्वामिनः; नान्ये इति । एतदपि सत्पदचिन्तायां भावितप्रायम् , न पुनर्भाव्यत इति ॥५६०-५६१।।
तदेवं दर्शिता ओघतोऽष्टानामपि मूलकर्मणां भूयस्कारादिस्थितिबन्धस्वामिनः । अथाऽऽदेशतो व्याचिकीर्षुलाघवार्थमतिदेशपूर्वकमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org