________________
४४० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषो भूयस्कारादिसल्पद लोभमार्गणायां तु मोहनीयकर्मणोऽबन्धादुत्तरं सूक्ष्मसम्परायगुणस्थानके कालं कृत्वा देवगतावुत्पद्य मोहनीय स्थितिबन्धप्रारम्भं यावत् तत्स्वामी लोभमार्गणायामेव वर्तते, तथा सति लोभपर्यायापन्नस्यैव जीवस्य पूर्वोत्तरसमययोर्मोहनीयकर्मस्थितेरबन्ध-बन्धयोर्लाभाद् , यद्वा क्रमेण प्रपततोऽनिवत्तिबादरसम्परायगुणस्थाने पूर्वप्रवतलोभमार्गणायामबन्धोत्तरं मोहनीयबन्धप्रारम्मादवक्तव्यस्थितिबन्धलक्षणसङ्गतेर्मोहनीयकर्मणोऽधत व्यस्थितिबन्धः प्राप्यतेऽतस्तत्रासौ विशेषेण सन्नभिहित इति दिक । अनया दिशा प्रतिमार्गणं भावना तु स्वयमेव कर्तव्येति । तदेवं शेषमार्गणास्वपि सप्तप्रकृतीनां भयस्कारादिस्थितिबन्धसत्पदानि दर्शितानि ।
अथावशेषस्यायुषस्तानि गाथाशेषेणाह-“सव्वह दुहाउस्स” त्ति 'सर्वत्र'-त्रिपष्टयभ्यधिकशतसंख्याकास्वायुबन्धप्रायोग्यासु सर्वमार्गणासु “दुहाउस्स” त्ति ओघवदायुपोऽल्पतरावक्तव्यभेदाद् 'द्विधा'-द्विविधोऽपि स्थितिबन्धः सन् भवतीत्यर्थः । सुगमं चैतद् , आयुर्वन्धस्य कादाचित्कतया सर्वमार्गणासु तद्वन्धप्रारम्भेऽवक्तव्यस्थितिबन्धस्य,प्रारम्भद्वितीयादिसमयेषु त्वल्पतरस्थितिबन्धस्य च प्रभवनात् । न च अप्पमत्तो आउां बंधिणाढप्पइ, पमत्तेणाढत्तं अप्पम्म तो बंधइ' इति शतकचर्णिवचनादप्रमत्तसंयतानामायुर्वन्धप्रारम्भस्याभावेनाऽवक्तव्यस्थितिबन्धासम्भवानिरपवाई सासु मार्गणास्वायुषो द्विवियोऽपि बन्धः सन्नित्यभिधानं कथं संगच्छेदिति वाच्यम् । यतो देशसंयतादिवन्नात्र काचिदप्रमत्तसंयतमार्गणा पृथगधिकृता येनोक्ताऽसङ्गतिः स्यात् ,संयमोघमार्गणायांत्वप्रमत्तजीवापेक्षया केवलस्यायुषोऽल्पतरस्थितिबन्धस्यैव सद्भावेऽपि प्रमत्तसंयतापेक्षया यथोक्तद्विविधोऽप्यसौ प्राप्यते, प्रमत्तसंयतेन आयुर्वन्धप्रारम्भस्यापि करणादिति ॥५५९॥
तदेवमभिहितान्यष्टानां प्रकृतीनां भूयस्कारादीनि सत्पदान्यादेशतोऽपि तस्मिंश्चाभिहिते गतमाद्यं सत्पदद्वारम् ॥
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे प्रथमं सत्पद्वार समाप्तम् ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org