________________
मार्गणास्वायुषो भूयस्कारादिसत्पद०] भूयस्काराधिकारे सत्पदद्वारम्
[ ४३७ स्थितेरवन्धस्तु सुक्ष्मसम्परायगुणस्थानादूर्ध्वमुपरितनगुणस्थानेष्वेवावाप्यते, तथा च सति यासु अनिवृत्तिवादरगुण स्थाः सूक्ष्मसम्परायगुणस्थाश्च जीवा लभ्यन्ते तासु मोहनीयसत्कः, यासु च मार्गणास सूक्ष्मसम्परायगुणस्था उपशान्तमोहगुणस्थाश्च जीवाः प्राप्यन्ते तास षट्कर्मसत्कोऽवक्तव्यस्थितिबन्धोऽपि सम्पद्यते, अबन्धोत्तरबन्धरूपत्वात्तस्य । लभ्यन्ते च प्रकृतपश्चत्रिंशन्मार्गणासु प्रत्येक तादृशा जीवाः, तेषां चोपशमश्रेणितः प्रतिपत्य पुनरपि स्थितिबन्धप्रारम्भेऽवक्तव्यबन्धभावात् पञ्चत्रिंशन्मार्गणासु सप्तकर्मणां चतुर्थोऽवक्तव्यबन्धोऽपि सन्नभिहित इति ।
__ननूपशमश्रेणावुपशान्तमोहगुणस्थाने पञ्चत्वं प्राप्य ये केचन जीवा देवगतावुत्पद्य तत्राभिनवमबन्धोत्तरस्थितिवन्वं प्रारभन्ते,तादृशजीवानपेक्ष्य देवगत्योघादिमार्गणास्वपि सप्तानां मूलप्रकृतीनामवक्तव्यलक्षणः स्थितिवन्धः सत्पदविषयीकर्तव्यो भवति, तत्कथमेता देवगत्योवादिमार्गणा न संगृहीताः ? इति चेद, उच्यते, सत्यमेतद्, यद् उपशान्ताद्धायामायुःक्षयाद्देवतयोप्तद्यमानानां जीवानामवन्धोत्तरबन्धप्रारम्भः, न पुनस्तदपेक्षया देवगतिमार्गणायां सप्तानामवक्तव्यस्थितिबन्ध इत्यपि, यतो देवगतिमार्गणायां हि ये देवगतिनामकर्मोदयाद् देवपर्यायमापन्ना जीवास्त एव प्रविष्टाः,नान्ये उपशान्तमोहगुणस्था भवचरमसमयवर्तिनो मनुष्यपर्यायापन्ना अपि, इत्थं च न विद्यते तादृशो देवपर्यायापन्नो जीवः यस्य देवपर्यायापन्नस्य सप्तानामबन्धोऽनन्तरोत्तरसमये त्वभिनवबन्धप्रारम्भश्च, अर्थात् पूर्वमबन्धकत्वे सत्यव्यवहितोत्तरमभिनवस्थितिबन्धप्रारम्भकत्वं यथा मनुष्य-पञ्चेन्द्रियादिपर्यायापन्नजीवस्य सम्पद्यते, तथा देवपर्यायापन्नस्य कस्यापि जीवस्य नोपपद्यते,तदभावे च कुतो देवगत्योधादिमार्गणास्ववक्तव्यस्थितिवन्धसम्भवः, न कुतश्चित् । इत्येवं विवक्षितपर्यायस्य जीवस्यैवाऽबन्धकत्वादित्वेऽवक्तव्यबन्धस्य स्वीकृतत्वेन देवगत्योघादिमार्गणासत्कजीवानां सप्तकर्मसत्कावक्तव्यस्थितिबन्धस्याऽसम्भवाद् देवगत्योपादिमार्गणा न सगृहीता इत्यलं प्रसङ्गेन ॥५५७-५५८॥
तदेवं यासु मार्गणासु सप्तकर्मणां भूयस्कारादिश्चतुर्विधोऽपि स्थितिबन्धः सम्भवति, तासु तत्सत्वं प्रतिपादितम् । साम्प्रतमुक्तशेषमार्गणासु सप्तानां सर्वमार्गणास्वायुषश्चतद्दिदर्शयिषुराह
सेसासु भूअगारो अप्पयरोऽवट्ठिओ तिहा बंधों। मोहस्स अवत्तव्बो लोहे सबह दुहाउस्स ॥५५९॥ (प्रे०) 'सेसासु” इत्यादि, अभिहितशेपासु निरयगत्योघादिपञ्चत्रिंशदुत्तरशतमार्गणासु प्रत्येकं भूयस्कारः, अल्पतरः, अवस्थितश्चेत्येवं 'त्रिधा'-त्रिप्रकारः स्थितिबन्धः सन् वर्तते, त्रिणि पदान्येव सन्ति, न पुनरवक्तव्यस्थितिबन्धपदमपि । किं सर्वासु शेषमार्गणासु सप्तानामप्यवक्तव्यस्थितिबन्धलक्षणं चतुर्थपदमसदुतास्ति कासुचित्कस्यचित्सदपीत्याह-“मोहस्स अवत्तव्वो लोहे" त्ति शेषमार्गणान्तःप्रविष्टायां लोभकषायमार्गणायां मोहनीयकर्मणोऽवक्तव्यस्थितिबन्धश्च सनित्येवं लोभमार्गणायां मोहनीयस्य चत्वार्यपि पदानि सन्ति, मोहनीयाऽऽयुर्वर्जानां पण्णां शेषकर्मणां तु शेषनिरयगत्योपादिमार्गणावत् त्रीण्येवेति भावः।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org