________________
४३६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां भूयस्कारादिसत्पद० तदा प्रथमसमयेऽवक्तव्यस्थितिबन्धः । कुतः ? तत्पूर्वसमये सर्वथैवाबन्धात् । द्वितीयादिसमयेषु पुनरायुष्कस्थितिबन्धान्तर्गताया अबाधायाः प्रतिसमयं हानेः प्रवर्तनादायुर्वन्धविच्छेदं यावत्प्रतिसमयमल्पतरस्थितिबन्धा एव प्राप्यन्ते । अत एवायुषो भूयस्कारा-ऽवस्थितस्थितिबन्धौ सन्तो नाभिहितावित्यपि विज्ञेयमिति ।।५५५-५५६॥ ___ तदेवमभिहितान्योघतोऽष्टकर्मणां स्थितिबन्धभूयस्कारादिसत्पदानि । अथादेशतो मार्गणास्थानेषु भूयस्कारादिसत्पदानि चिचिन्तयिषुरादौ तावदायुर्वर्जसप्तकर्माण्यधिकृत्य प्राह
णरतिग-दुपणिदियतस-पणमणवयणेसु काय-उरलेसु। गयवेए णाणचउग-संयम-तिदरिसण-सुइलासु॥५५७॥ भविए सम्मे खइए उवसम-सण्णीपु य तह आहारे ।
भूगाराई होअइ सत्तण्हं चउविहो बंगो ॥५५८॥ (प्रे०) "णरतिगदुपणिंदिये"त्यादि, अत्र ‘णरतिगे"त्यादिनाऽपर्याप्तभेदवर्जाः शेषभेदा गृह्यन्ते; ततोऽपर्याप्तभेदवर्जेषु त्रिषु मनुष्यगतिमार्गणाभेदेपु; तथैवाऽपर्याप्तभेदवर्जयोयोः पञ्चेन्द्रियजातिभेदयोः, द्विशब्दस्य त्रसेत्यत्रापि योजनादपर्याप्तभेदवर्जयोईयोस्त्रसकायभेदयोः, पञ्चमनोयोगभेदाः पञ्चवचोयोगभेदास्तेषु, तथा काययोगसामान्यो-दारिककाययोगमार्गणयोः, “गयवेए" ति अपगतवेदमार्गणायाम् , तथैव मत्यादिज्ञान वतुष्के, संयमोघ-चक्षुरादित्रिदर्शन-शुक्ललेश्यामार्गणासु, भव्यमार्गणायां सम्यक्त्वाघमागणायां, क्षायिकसम्यक्त्वमार्गणायामोपशमिकसम्यक्त्व-संज्ञिमार्गणयोः "आहारे" ति आहारिमार्गणायां चेत्यर्थः । एतास प्रत्येकमायुर्वर्जानां सप्तप्रकृतीना भयस्कारादिश्चतुर्विधो बन्धो भवति । चतुर्विधवन्धः सन्नित्यर्थः, सत्पदप्ररूपणायाः प्रस्तुतत्वाद् , भूधातोः सत्तार्थकत्वाच्चेत्यक्षरार्थः ।
भावार्थः पुनरयम्-क्षपकश्रेणिवहिःस्थानां नरकगत्योघाद्यनाहारकमार्गणापर्यन्ततत्तत्सर्वमार्गणागतजीवानां कषायोदयजन्या विशुद्धिः संक्लेशो बोत्कृष्टतः प्रत्यन्तर्मुहूर्त तथाम्वाभाव्येन नियमतोऽन्यान्यस्थितिबन्धप्रायोग्यसंक्लेशतया विशुद्धितया वा विपरिवर्तते । तथा च सति तैर्जीः प्रारब्धाः स्थितिबन्धा अप्युत्कृष्टतोऽन्तमुहर्तमवस्थाय संक्लेशविशुद्धयनुसारेण विपरावर्तन्त इत्यनन्तरमुक्तमेव । ततः किम् ? ततः प्रतिमार्गणं सप्तकर्मणां तावन्मात्रस्थितिबन्धप्रवर्तनरूपोऽवस्थितस्थितिबन्धः, समयद्विसमयादेरू मधिकस्थितिबन्धे प्रारब्धे भूयस्कारस्थितिबन्धः, हीनस्थितिबन्धे प्रारब्धे त्वल्पतरस्थितिबन्धश्चेत्येवं त्रिविधवन्धस्तु सुतरां लभ्यते । अवक्तव्यस्थितिबन्धः पुनर्यासु मार्गणासु ज्ञानावरणादिकर्मसत्कस्थितेरबन्धः प्राप्यते तासु मार्गणास्वेव सम्भवति । आयुर्वर्जानां सप्तमूलकर्मणां स्थितेरबन्धस्तु समग्रायामपि भवभ्रान्तौ न कुत्रचिदवाप्यते, विहायोपशमश्रेणिं । तत्रापि मोहनीयस्थितेरबन्धोऽनिवृत्तिवादरगुणस्थानावं तथाऽऽयुमोहनीयवर्जानां षण्णां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org