________________
भूयस्कारादयः स्वरूपतः ] भूयस्काराधिकारेसत्पदद्वारम्
[४३५ अबन्धगो" ति कश्चिज्जीपः पूर्वसमये “अबन्धगो" त्ति तत्तज्ज्ञानावरणादिमूलप्रकृतेः स्थितिबन्धमपेक्ष्यावन्धको भूत्वाऽनगरे समये 'बंधइ" तिबन्धप्रायोग्यस्थितीनामन्यतमां स्थिति बध्नाति “स हवइ अवत्तव्वो" ति स तस्यावन्धादनन्तरजायमानोऽन्यतमस्थितेबन्धो प्रथमसमयेऽवक्तव्यनामा स्थितिबन्धो भवति ।
इदमुक्तं भवति-भृयस्कारादिस्थितिबन्धाः पूर्वसमये स्तोकादि-स्थितिबन्धसद्भावेन तदपेक्षया उत्तरसमयबधमानस्थितेभ्यस्त्वादितया भूयस्कारादिपदवाच्या भवन्ति । अबन्धादुत्तरसमये जायमानस्थितिबन्धस्तु पूर्वसमये स्थितिबन्धाभावाद्भयस्कागदिवन्नाधिकः स्तोकस्तुल्यो वेत्यतो भूयस्कारादिपदत्रयेण वक्तमशक्य इतिकृत्वाऽवक्तव्यपदेनैव व्यपदिश्यते । उक्तं च महोपाध्यायः श्रीमद्ययशोविजयपूज्यैः कर्मप्रकृतिटीकायाम्
यदा तु सर्वथैवाऽवन्धकादिभूत्वा सोरपि बन्धादिकमारभते तदा स बन्धादेश्चतुर्थो भेदोऽवक्तव्यनामा, भूयस्कारादिशब्देन वक्तुमशक्यत्वात् ।। इति ।
भूयस्कारादीनां लक्षणानि कर्मप्रकृत्यादिष्वपीत्थमेवाभिहितानि । यदुक्तं कर्मप्रकृतौ क्रमेण तल्लक्षणानि प्रतिपादयद्भिः शिवशर्मसूरिपुङ्गवैः'ग्गादहिगे पढमो एगाईऊणगम्मि बिइओ उ । तत्तियमेत्तो तइओ पढमे समये अवत्तव्यो' ।।५२।। इति ।
इत्थं हि भूयस्कारादिलक्षणानां स्थितिबन्धविशेषाणां स्वरूपे व्यवस्थिते प्रथमगाथोक्तौधिकसत्पदभावनात्वेवं कार्या--क्षपकश्रेणिबहिःस्थस्य ज्ञानावरणादीनां सप्तानामुत्कृष्टस्थितिबन्धादन्यं स्थितिवन्धं विदधतः कस्याऽपि जीवस्य वर्तमानगुणस्थानादपकृष्टगुणस्थानकान्तरप्राप्तौ स्थितिबन्धवृद्धिर्भवति । एवमेकेन्द्रियादिभ्यश्च्युत्वा द्वीन्द्रियादित्वेनोत्पत्तावपि नियमेन स्थितिबन्धवृद्धिर्भवति। एवं वैपरित्येन वर्तमानगुणस्थानकाद् विशुद्धगुणस्थानकान्तरप्राप्ती संज्ञिभ्यश्च्युत्वाऽसंज्ञिपञ्चेन्द्रिय-चतुरिन्द्रि याद्यन्यतमतयोत्पद्यमानस्य वा स्थितिबन्धहानिर्जायते । एवंविधकारणाभावेऽपि प्रत्यन्तमुहूर्त जघन्यतः समयमुत्कृष्टतः समयद्वयं वा सर्वजीवानां स्थितिवन्धस्य वृद्धिहानयस्तथास्वाभाव्येन प्रवर्तन्त एव । तत्र यः पूर्वसमयादुत्तरसमये जायमानः समय-द्विसमयादिना वृद्धस्थितिवन्धः, स एव प्रथमसमये भूयस्कारः, इत्येवं भूयस्कारपदं सदेव । अनेनैव प्रकारेणाधिकस्थितिबन्धस्याऽपि जघन्यतः प्रत्यन्तर्मुहूर्त नियमेन हीनस्थितिवन्धतया परावृत्तेर्भावादल्पतरस्थितिबन्धपदमपि सदेव । यदा तूपयुक्तान्यतमकारणं न विद्यते,तदातु यावान् स्थितिबन्धः पूर्वसमय आसीत्तावानेवोत्तरसमये प्रवर्तत इति त्ववस्थितः, इत्येवमवस्थितस्थितिवन्धसत्ताऽपि प्रसिद्धा । अवक्तव्यस्थितिबन्धस्तूपशमश्रेणो व्युपरतस्थितिबन्धस्य जीवस्योपशान्ताद्धाक्षयात्प्रतिपाते, कालकरणेन देवगतावुत्पत्त्या वा पुनरपि स्थितिवन्धप्रारम्भसद्भावात् प्रारम्भप्रथमसमयजातस्थितिबन्धापेक्षया प्राप्यत एव; एतच्चानन्तरं स्वामित्वद्वारे ग्रन्थकारः स्वयमेव व्यक्तीकरिष्यति । आयुषोऽल्पतरा-ऽव कव्यरूपद्विविधस्थितिबन्धस्य सचं तु सुसिद्धम् , कादाचित्कत्वादायुर्बन्धस्य । तद्यथा- यदायुर्वन्धः प्रारभ्यते,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International