________________
४३४ ]
मूल डिठबंधो
सत्तण्ह भूअगारो अप्पयरोऽवट्टियो अवत्तव्वो । बन्धो उहाऽऽउस दुविहो ऽप्पयरो अवत्तव्वो ॥५५४ ॥
[ ओघतो भूयस्कारादिसत्पद०
(प्रे०) "सत्तण्ह भूअगारो" इत्यादि, तत्र "सत्तण्ह" त्ति आयुर्वर्जानां ज्ञानावरणदर्शनावरण- वेदनीय- मोहनीय-नाम- गोत्रा - ऽन्तरायलक्षणानां सप्तानां मूलप्रकृतीनामित्यर्थः । अस्य चान्वयः 'बन्धो च : ह " इति परेण, ततस्तासां सप्तानां प्रकारान्तरेण चिन्त्यमानो "बंधो" त्ति प्रकृतत्वात् स्थितिबन्धः 'चउह' " ति चतुर्वा, अस्तीति शेषः । चातुर्विध्यमेव दर्शयन्नाह"भूअगारो" इत्यादि, वक्ष्यमाणस्वरूपो भूयस्कारवन्धोऽल्पतरबन्धोऽवस्थितबन्धोऽवक्तव्यवन्धश्चेत्यर्थः । अथ शेषस्यायुःकर्मण आह- “उस्स उ दुविहो" इत्यादि, पूर्वमाकारस्य दर्शनादायुषस्तु 'द्विविधो' अल्पतरोऽवक्तव्यश्च स्थितिबन्धोऽस्तीति ॥ ५५४ ||
ननु किमेतेषां स्वरूपमित्याशङ्कायां तेषां स्वरूपं दर्शयन्नाह - पूव्वसमयाउ समये अणंतरे बंधए पहुत्तरं । बंधो स भूअगारोऽप्यरं बंधइ स अप्पयरो ||५५६॥ तावइयं चिअ बंधड़ सो णायव्वो अवडिओ बंधो । होउं अवधगो उण बंधड़ से हवइ अवत्तव्वो ॥५५७॥
(प्रे०) "पूच्वसमयाउ" इत्यादि, पूर्वसमये स्तोकस्थितिं बध्नन् कचिज्जीवः पूर्वसमयादनन्तरे समये यदा " पत्तयरं" त्ति 'प्रभूततराम्' समयादिनाऽधिकां स्थितिं बध्नीयात् तदा तबन्धः प्रकृते भूयस्कारनामा "बंध" त्ति स्थितिबन्धो भवतीति परेणान्वयः । एवमुत्तरत्रापि बोद्धव्यम् । अल्पतरबन्धस्वरूपमाह - "प्पयरं बंबई" इत्यादि, अत्र लुप्ताऽकारस्य दर्शनात् "पून्द समयाउ समये अणन्तरे" इत्यस्यानुवर्तनाच्च पूर्वसमये प्रभूतस्थितिं नत्थ ज्जीव: पूर्व समयादनन्तरे समये यदा "ऽप्यरां बंधइ" ति अल्पतरां समयसिमादिवाहनां स्थितिं नाति तदा तस्य सोऽल्पतरनामा स्थितिबन्यो भवतीत्यर्थः । अवस्थितन्वस्वरूपाद"तावइयां चिअ बंधइ" इत्यादि, पूर्व । पूर्वसमये स्तोकस्थितिं प्रभूतस्थितिं वा बध्नन् : कचिज्जीव: पूर्वसमयादनन्तरे समये "तावइयां चिअ" त्ति 'तावतीमेव' - पूर्व समयबद्धस्थित्या तुल्यामेव स्थितिं बध्नाति न पुनः समयादिना हीनामधिकां वेत्यर्थः । तस्य किमित्याह - "सो णायव्वो" इत्यादि, तस्य स बन्धोऽवस्थितनामा स्थितिबन्धो ज्ञातव्य इत्यर्थः । अवक्तव्यवन्वस्वरूपमाह - ' होउं अबंधगो उण" इत्यादि, पुनः शब्दोऽनन्तरोक्तवन्धत्रयस्वरूपापेक्षयाऽवक्तव्यबन्धस्वरूपस्य वैलक्षण्यद्योतकः, यतः पूर्वं तत्तद्भयरकारादिस्थितिबन्धानां निर्वर्तको जीवस्तत्तद्बन्धसमयादनन्तरप्राक्समये प्रभूत- स्तोकतुल्यानामन्यतमस्याः स्थितेर्बन्धक आसीद्, अत्र चरमप्रकारे त्वसावन्यतमस्या अपि स्थितेर्बन्धको न भवति, किन्तु सर्वथाऽबन्धक एव भवति । एतदेव दर्शयन्नाह - " होउं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org