SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ॥ यस्काधका ॥ एतर्हि क्रमप्राप्तस्य "भूगारा" इत्यनेन प्रस्तुतस्थितिवन्धग्रन्थप्रारम्भ उद्दिष्टस्य तृतीयस्य भूयस्काराधिकारस्यावसरः । अत्र ह्यधिकारे मूलप्रकृतीनां भूयस्कारस्तदुपलक्षणादल्पतरः, अवस्थितः, अवक्तव्य इत्येवं चतुःप्रकाराः स्थितिबन्धविशेषाः सत्पदस्वामित्वादिद्वारेषु प्राग्वच्चिन्तनीयाः, अतो ऽधिकारप्रारम्भ आहौ तावत्प्राक् ‘तेसु पढमाइसु अहिगारेसु' इत्यादितृतीयगाथायां संख्यामात्रेण कीर्तितानां त्रयोदशद्वाराणां नामधेयान्याविष्कुर्वन्नाह गाथायुग्मम् तइए भुओगारे अहिगारम्मि हविरे दुआराइं। तेरस संतपयं तह सामी कालंतराइं च ॥५५२॥ भंगविचयो य भागो परिमाणं खेत्तफोसणाउ तहा। कालो अंतरभावा अप्पाबहुगं जहाकमसो ॥५५३॥ (प्रे०) "तइए भुओगारे” इत्यादि, मूलप्रकृतिस्थितिबन्धमधिकृत्योद्दिष्टषडधिकारान्तगते तृतीये भूयस्काराभिधेऽधिकारे त्रयोदश द्वाराणि यथाक्रमशः भवन्तीति क्रियायोगः । तत्र द्वारनामानि तु "संतपय"मित्यादिनाऽभिहितानि । तद्यथा-(१) आद्यं सत्पदद्वारम् ,(२) तदनु द्वितीयं स्वामित्वद्वारम् , (३) ततस्तृतीयं कालद्वारम् , (४) ततोऽन्तरद्वारम् , (५) तत्पश्चाद् भङ्गविचयद्वारम् , (६) ततो भागद्वारम् , (७) ततः परिमाणद्वारम् , (८) ततः क्षेत्रद्वारम् , (९) ततः स्पर्शनाद्वारम् , (१०) ततस्तु कालद्वारम् , (११) ततोऽन्तरद्वारम् , (१२) ततो भावद्वारम् , (१३) ततस्त्रयोदशमल्पबहुत्वद्वारम् । अत्राऽपि गताधिकारवद्भङ्गविचयादीनि पञ्चमादीनि द्वाराणि नानाजीवानाश्रित्य प्ररूपयिष्यन्त इति विज्ञेयम् । सत्पदवर्जशेषद्वारव्याख्यानमपि पूर्ववदेव द्रष्टव्यम् । सत्पदद्वारस्य त्वेवम्-सन्ति-विद्यमानानि पदानि भूयस्कारादिस्थितिबन्धलक्षणानीति सत्पदानि, तानि यत्र द्वारे चिन्त्यन्ते तत् सत्पदद्वारम् । ओघतः सर्वजीवराशौ, विशेषतो मार्गणास्थानेषु च मूलाष्टकर्मणां भूयस्कारादिचतुर्विधस्थितिबन्धेभ्यः कियन्ति पदानि सद्भूतानीत्यस्य प्ररूपणमिति भाव इति ॥५५२-५५३॥ ॥प्रथमं सत्पदद्वारम् ॥ तदेवमुक्तानि सक्रमं पारिप्सिताधिकारगतानां द्वाराणां नामानि । साम्प्रतमुद्दिष्टक्रमेणैव तेषु भूयस्कारादिस्थितिबन्धं चिचिन्तयिषुरादौ तावत् प्रथमे सत्पदद्वार ओघतः सत्पदानि दर्शयन्नाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy