________________
४३८ ]
बंधविहाणे मूलपयडिठिइबंधो [भूयस्कारादिसत्पदोपपत्ति० ___तत्र शेषमार्गणास्त्विमा:-अष्टौ नरकगतिभेदाः,पश्चापि तिर्यग्गतिभेदाः, अपर्याप्तमनुष्यमार्गणाभेदः सर्वेऽपि देवगतिमार्गणाभेदाः, सर्व एकेन्द्रियजातिभेदाः, सर्वे विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रिय प्रेदः, तथा पृथिवीकाथा-ऽप्काय-तेजस्काय-वायुकाय-प्रत्येकवनस्पतिकाय-साधारणवनस्पतिकायसत्काः सर्वे भेदाः, अपर्याप्तत्रसकायभेदः, औदारिकमिश्रा-ऽऽहारका-ऽऽहारकमिश्र-वैक्रिय-वैक्रियमिश्र-कार्मण काययोगभेदाः, स्त्री-पु-नसकवेद-क्रोधादिचतुःकपाय-मत्वज्ञान-श्रुताज्ञान-विभङ्गज्ञानसामायिक-छेदोपस्थापन-परिहारविशुद्धिक-मूक्ष्मसम्परायसंयम-देशसंघमा-ऽसंयम-कृष्ण-नी:-कापोततेजः-पद्मलेश्या-ऽभव्य-क्षायोपशमिकसम्यक्त्व-सम्यग्मिथ्यात्व-सासादन-मिथ्यात्वा-संड्य-ऽनाहारिमार्गणाभेदाश्चेति ।
एतासु प्रत्येकं भयस्कारादिवन्धनयलावस्तु पूर्ववत्सुगमः । अवक्तव्यवन्धाभावस्तु सूक्ष्मसम्परायसंयम-लोभमार्गणावर्जास शेपमार्गणास काश्चिदपि जीयानां सप्तकर्मणां स्थितियन्धाभावस्यालाभात्प्रागुक्तनीत्या भावनीयः । सूक्ष्मसम्परायसंयममार्गणानां तु मोहनीयकर्मसत्कस्थितेरवन्धस्य लाभेऽप्यबन्धाः स्थितिवन्धप्रारम्भस्याऽलाभात् विशेषणाभावप्रयुक्तायास्तल्लक्षणाप्राप्तेरवक्तव्यबन्धो न प्राप्यते । किमुक्तं भवति? यथोक्तं विशिष्टबन्धकाधीनावक्तव्यस्थितिबन्धलक्षणमंशद्वयापन्नम् , एको विशेष्यांशोऽन्यो विशेषणांशः । पूर्वमवन्धे सति बन्धप्रारम्भोऽवक्तव्यबन्धस्तत्र पूर्वमबन्धे सतीत्येतावान् विशेषणांशः, बन्धप्रारम्भ इत्येतावान् विशेष्यांशः । मार्गणास्थानेषु प्रकृतबन्धचिन्तायामेतल्लक्षणं विवक्षितनारकत्वादिपर्यायापन्नतत्तन्मार्गणास्थजीवमपेक्ष्य चिन्तनीयम् , तच्च प्रागुक्तमनुष्यत्रिकादिमागंणास्ववोपपद्यते, न पुनः शेषासु नरकगत्योधादिमार्गणाम् । कथम् ? कासुचिन्नरकगत्योघादिमार्गणास विशेषणविशेष्योभयाभावात् , कासुचिदेवगत्योधादिमार्गणासु विशेषणाभावात् , सूक्ष्मसम्परायसंयममार्गणायां मोहनीयकर्मस्थितिबन्धविषये तु विशेष्यांशविरहाच्च ।
तथाहि-नरकगत्गोधादिषु नास्ति कस्यापि नारकत्वादिपर्यायापन्नस्य जीवस्य ज्ञानावरणादीनां सप्तानां स्थितेरवन्धः, एवमुपशमश्रेणावबन्धकावस्थायां कालं कृत्वा नारक-तिर्यगादितयोत्पादाभावेन देवगत्योपादिमार्गणावत्सप्तानामभिनववन्धप्रारम्भोऽपि नास्ति । देवगत्योधादिकतिपयमार्गणासु तादृशबन्धप्रारम्भसम्भवेऽपि देवत्वादिपर्यायविशेषे वर्तमान एवं नास्ति कस्यापि देवजीवस्य सप्तकर्मणां स्थितेरवन्धः, एवं सति विशेषणाभावप्रयुक्तप्रकृतलक्षणाप्राप्तेरवक्तव्यबन्धसत्वं न प्रतिपादितम् । इत्थमेव सामायिक-छेदोपस्थापनसंयममार्गणयोर्मोहनीयकर्मस्थितिबन्धविषये तथा सूक्ष्मसम्परायसंयम-लोभकषायमार्गणयोर्मोहनीयवर्जपटकर्मस्थितिबन्धविषये बोद्धव्यम् । कथम् ? उपशमश्रेणितः प्रतिपतज्जीवापेक्षयाऽपि मोहनीयादिकर्मणां स्थितेरबन्धस्य सामायिकादिमार्गणातो बहिर्भावात् । सूक्ष्मसम्परायसंयममार्गणायां मोहनीयकर्मस्थितिबन्धविषये तु विशेषणांशस्य स्थितेरवन्धलक्षणस्य सद्भावेऽपि सूक्ष्मसम्परायमार्गणायामेव मोहनीयस्थितिबन्धप्रारम्भलक्षणस्य विशेष्यांशस्याऽसद्भावाद्विशेष्याभावप्रयुक्ता प्रकृतावक्तव्यबन्धलक्षणाप्राप्तिः, अतस्तत्र मोहनीयस्थितेरवक्तव्यबन्धो नोक्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org