________________
४२२]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वष्टमूलप्रकृतीनां परस्थाने ताउ असंखेज्जगुणो उक्कोसो होइ णामगोआणं ।
तो तीसगाण तत्तो मोहस्स कमा विसेसहियो ॥५४७॥ (प्रे०) "ओहिव्वे" इत्यादि,अवधिज्ञानमार्गणावदवधिदर्शनमार्गणावद्वा, अल्पबहुत्वमितिशेषः । तुः पादपूरणे । तद्वत्कस्यामित्याह-"सुइलाए" ति शुक्ललेश्यामार्गणायाम् । किं सर्वथा तद्वदुत किञ्चिदन्यथाऽप्यस्तीत्याह-"णवरं मोहस्स" इत्यादि। अयम्भाव:-सामान्यतः सर्वथा तथैव, परं मोहनीयस्योत्कृष्ट स्थितिबन्धोऽवधिज्ञानमार्गणायां विशेषाधिक उक्तः, सोऽत्र शुक्ललेश्यामार्गणायां संख्येयगुणो भवति । कुतः ? सप्तप्रकृतिसत्कोत्कृष्टस्थितिबन्धकशकलेश्याकजीवानां मिथ्यात्वस्य बन्धसद्भावात् । अतस्तथैव द्रष्टव्यः । तद्यथा-मोहनीयस्य जघन्यः स्थितिबन्धः सर्वस्तोकः । ततः शेषत्रिघातिनामसौ संख्येयगुणः । ततो नामगोत्रयोरसौ जघन्यः संख्येयगणः । ततो वेदनीयस्य तु स विशेषाधिकः । तत आयुषो जघन्यः संख्येयगुणः । ततस्तु तस्यैवोत्कृष्टोऽसंख्येयगणः । ततो नामगोत्रयोरुत्कृष्टः संख्येयगणः । ततो ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां चतुर्णा विशेषाधिकः । ततस्तु मोहनीयस्योत्कृष्टस्थितिबन्धः संख्येयगुण इति ।
"अहुवसमें' त्ति अथशब्दस्यानन्तर्यार्थकत्वेन शुक्ललेश्यामार्गणाऽनन्तरमौपशमिकसम्यक्त्वमार्गणायाम् । तत्र किमित्याह-"मोहस्स लहू" इत्यादि, मोहनीयकर्मणो 'लघुः'-जघन्यः स्थितिबन्धः "भवे थोवो" ति स्तोको भवेत्, वक्ष्यमाणस्थानापेक्षयेति गम्यत एव । ततः "तीसगाण" त्ति वेदनीयस्योत्तरत्र वक्ष्यमाणत्वावदनीयवर्जानां 'त्रिशत्कानां'-ज्ञानावरणादीनां त्रयाणाम् "णेयो संखगुणो" त्ति संख्येयगणो ज्ञातव्यः, जघन्यस्थितिबन्ध इत्यनुवृत्त्या बोद्धव्यम् । तस्मात् नामगोत्रयोः संख्येयगणो जघन्यस्थितिबन्ध इति पूर्ववत् । ततस्तृतीयस्य वेदनीयकर्मणो विशेषतोऽभ्यधिकः । अत्रापि जघन्यस्थितिबन्ध इति पूर्ववदनवत्तेष्टव्यम् । ततोऽसंख्येयगुण उत्कृष्टस्थितिबन्धो भवति । कस्येत्याह-“णामगोआणं"ति नामगोत्रकर्मणोः "तो तोसगाण' त्ति ततस्त्रिशत्कानां चतुणां ज्ञानावरणादीनाम्, उत्कृष्टस्थितिबन्ध इति प्राग्वत । "तत्तो मोहस्स" ति ततो मोहनीयकर्मणः, उत्कृष्टस्थितिबन्ध इति पूर्ववत् । कियानित्याह-“कमा विसेसहियो" ति उक्तक्रमेण यथोत्तरं विशेषाधिक इत्यर्थ इति ॥५४५-५४६-५४७॥
वेअग-सासाणेसु आउस्स भवे जहण्णगो थोवो । ताहिन्तो उक्कोसो असंखियगुणो मुणेयब्बो ॥५४८॥ तत्तो संखेज्जगुणो जहण्णगो होइ णामगोआणं । तो तीसगाण तत्तो मोहस्स कमा विसेसऽहियो ॥५४९॥ तत्तो संखेज्जगुणो उक्कोसों होइ णामगोआणं । तो तीसगाण तत्तो मोहस्स कमा विसेसऽहियो ॥५५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org