________________
जघन्योत्कृष्टस्थितिबन्धाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम
[ ४२३ . (प्रे०) "वेअगसासाणेसु" इत्यादि, वेदकसम्यक्त्व-सासादनसम्यक्त्वमार्गणयोः प्रत्येकमायुषो जघन्य एव जघन्यकः स्थितिबन्धः स्तोकः । तस्माद् “उक्कोसो" त्ति 'आउस्से त्यस्यानुवृत्तेरायुष उत्कृष्टस्थितिबन्धोऽसंख्येयगुणो ज्ञातव्यः । ततः संख्येयगुणो जघन्य एव जघन्यकः स च स्थितिबन्ध इति गम्यते । कस्य कस्येत्याह-'णामगोआणं" ति नामगोत्रकर्मणोः । ततस्त्रिंशत्कानां चतुर्णा ज्ञानावरणादीनां रातो मोहनीयकर्मणः क्रमाद् विशेषाधिकः; जघन्यस्थितिबन्ध इत्यनुवर्तते । ततः संख्येयगुण उत्कृष्टः स्थितिवन्धो भवति नामगोत्रकर्मणोः । ततस्त्रि शत्कानां चतुर्णा ज्ञानावरणादीनां ततो मोहनीयकर्मणः क्रमाद् विशेषाधिकः, उत्कृष्टस्थितिबन्ध इत्यनवर्तत इति ॥५४८-५४९-५५०।।।
पंचिदियतिरियब उ होइ असण्णिम्मि णवरि ठिइबंधो।
हवइ असंखेज्जगुणो जहण्णगो णामगोआणं ॥५५१॥
(प्रे०) “पंचिंदियतिरियव्वे' त्यादि, अक्षरार्थस्तु सुगमः, नवरमसंज्ञिमार्गणायामिस्थमल्पबहुत्वम्-आयुषो जघन्यस्थितिबन्धः स्तोकः । तत आयुष उत्कृष्टस्थितिबन्धोऽसंख्यगुणः । ततो नामगोत्रयोर्जघन्योऽसंख्येयगुणः । ततश्चतुर्णा ज्ञानावरणादीनां जघन्यो विशेषाधिकः । ततो मोहनीयस्य जघन्यः संख्येयगुणः । ततो नामगोत्रयोरुत्कृष्टः संख्येयगुणः । ततश्चतुर्णा ज्ञानावरणादीनामुत्कृष्टो विशेषाधिकः । ततो मोहनीयस्योत्कृष्टः स्थितिबन्धः संख्येयगुण इति ।।५५१॥
___ तदेवं प्ररूपितं पदयसम्बन्धि तृतीयं परस्थानस्थितिबन्धाल्पबहुत्वमपि । साम्प्रतं मन्दमेधसां लध्धबधारणकृते प्राग्वदत्रापि प्रस्तुतद्वारोक्तर्थसंग्रहपराण्यल्पबहुत्वयन्त्रकाण्यालिखनीयानि । तानि त्वेवम्-* ।
तदेवमालिखितान्यल्पबहुत्वप्रदर्शकयन्त्रकाण्यपि, तेषु चाऽऽलिखितेषु गतं पश्चदशमल्पबहुत्वद्वारम् । तस्मिँश्च गते निष्ठतः पञ्चदशद्वारात्मको द्वितीयाधिकारः ।।
एनमपराधिकारं विवृण्वता यन्मया सुकृतमाप्तम् ।
तेन हि विश्वं विश्वं विश्वग्विश्वसतु जिनवचने । (पथ्यार्या) ।। इति श्री बन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे पञ्चदशमल्पबहुत्वद्वारं समाप्तम् ।।
॥ इति श्रीबन्धविधान-मूलप्रकृतिस्थितिबन्धे द्वितीया धिकारः ॥
NARAYARIYAR
ॐ अल्पबहुत्वयन्त्राणि दिद्रुक्षवः पाठकाः पश्यन्तु ४२४ तमादीनि पृष्ठानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org