________________
जघन्योत्कृष्टस्थितिबन्धाल्पबहु० ]
द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
[ ४२१
किमेतदपवादपदमुक्तमतिज्ञानादिसर्व मार्गणासु बोद्धव्यमुत कासुचिदेवेत्याह- "मणपज्जवे" इत्यादि, मनः पर्यवज्ञान-संयमौघ- सामायिक संयम-छेदोपस्थापन संयममार्गणासु न पुनस्तदन्यमार्गणासु, अन्यमार्गणासु देवानामायुषो जघन्यस्थितिबन्धस्वामित्वेन वर्षपृथक्त्वस्थितिकस्य मनुष्यायुपो बन्धसम्भवात् तदपेक्षया साधित्रयत्रिंशत्सागरोपमप्रमाणस्यायुष उत्कृष्ट स्थितिबन्धस्यासंख्येयगुणत्वाच्च । मनः पर्यवज्ञानादि मार्गणासु त्वायुष उत्कृष्ट स्थितिबन्धस्वामिनामिव जघन्यस्थितिबन्धस्वामिनां मनुष्याणां जघन्यतोऽपि पल्योपमपृथक्त्वस्थितिकदेवायुप एव बन्धभावात् तद्पेक्षया साधित्रयस्त्रिंशत्सागरोपमस्थितिकस्यायुष उत्कृष्ट स्थितिबन्धस्य संख्येयगुणत्वाच्च विशेपतो वक्तव्यम् । तद्यथा - मोहनीयस्य जघन्यस्थितिबन्धः सर्वस्तोकः । ततः शेषत्रिघातिनामस संख्येयगुणः । ततो नामगोत्रयोर्जघन्यः संख्येयगुणः । ततो वेदनीयस्य जघन्यो विशेषाधिकः । तत आयुषो जघन्योऽसंख्येयगुणः । ततस्तस्यैवायुप उत्कृष्ट : संख्येयगुणः । ततो नामगोत्रयोरत्क्रुष्टः संख्येयगुणः । ततो ज्ञानावरण- दर्शनावरण- वेदनीया -ऽन्तरायाणां चतुर्णां विशेषाधिकः । ततो मोहनीयस्योत्कृष्ट स्थितिबन्धो विशेषाधिक इति ।।५३९-५४०-५४१-५४२॥
1
सुमम्मि तिघाणं हस्सोऽप्पो ताउ णामगोआणं । संखेज्जगुणो तत्तो त अस्स विसेसओ अहियो ॥ ५४३ ॥ तो तीसगाण जेहो संखगुणो ताउ णामगोआणं । संखेज्जगुणो तत्तो त अस्स भवे विसेसहिओ ॥ ५४४ ॥
(प्रे०) "सुहमम्मि” इत्यादि, सूक्ष्मसम्परायसंयममार्गणायां मोहनीयस्याबन्धात् तच्छेपाणां ज्ञानावरणादीनां त्रयाणां घातिकर्मणां "हस्सोप्पो" ति 'ह्रस्वः' - जघन्यः स्थितिबन्धः 'अल्पः 'स्तोकः । तस्मान्नामगोत्रयोः संख्येयगुणः । ततस्तृतीयस्य वेदनीयकर्मणो विशेषतोऽधिकः । उभयत्राऽपि "हस्सो" इत्यस्यानुवृत्तेर्जघन्य स्थितिबन्ध इति ज्ञातव्यम् । ततस्त्रिंशत्कानां ज्ञानावरणदर्शनावरणाऽन्तरायलक्षणानां त्रयाणां 'ज्येष्ठः ' - उत्कृष्ट स्थितिबन्धः संख्येयगुणः, ततो नामगोत्रयोरुत्कृष्ट स्थितिबन्ध: संख्येयगुणः । ततस्तृतीयस्य वेदनीयकर्मण उत्कृष्टस्थितिबन्धो विशेषाधिको भवेदित्यर्थः । अत्रापि पदद्वये पूर्ववद् "जेट्ठो” इतिपदानुवृच्योत्कृष्टस्थितिबन्ध इति बोद्धव्यमिति ।
I
Jain Education International
ओहिव्व उ सुइलाए णवरं मोहस्स होइ उक्कोसी । संखगुणो अहुवसमे मोहस्स लड्डू भवे थोवो || ५४५ ॥ तो तीसगाण यो संखगुणो ताउ णामगोआणं । संखेज्जगुणां तत्तो त अस्स विसेसओ महिओ ॥ ५४६ ॥
For Private & Personal Use Only
www.jainelibrary.org