________________
४२० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वष्टमूलप्रकृतीनां परस्थाने
मसंख्येयगुणः, ततो वेदनीयकर्मण उत्कृष्टस्थितिबन्धो विशेषाधिक इति ।। ५३७-५३८ ।। चरणाण - संयमेसु समइअ - छे - ओहि सम्म खइए । मोहस्स लहू थोवो तओ तिघाईण संखगुणो ॥५३९॥ तो वीरगाण यो संखगुणो तो विसेसओहियो । तइअस्स हवइ तत्तो आउस्स हवेज्ज संखगुणो ॥ ५४० ॥ आउस असंखगुणो कोसो ताउ वीसगाण भवे । संखगुणो तो कमसो चउण्ह मोहस्स चन्भहियो ॥५४१ ॥ णवरं आउस्स लहू असंखियगुणो तओ भवे जेट्टो | संखगुणो मणपज्जव - संयम- सामइअ- छेएस ॥ ५४२॥
(प्रे०) “चउणाण संयमेसु" इत्यादि, मत्यादिचतुर्ज्ञानमार्गणासु, संयमौघमार्गणावां, तथा सामायिक छेदोपस्थापनसंयमाऽवधिदर्शन- सम्यक्त्वौघ क्षायिकसम्यक्त्वमार्गणासु प्रत्येकं मोहनीयस्य 'लघु' - जघन्यः स्थितिबन्धः स्तोकः । इतः प्रभृति जघन्यस्थितिबन्धाभिधायकस्य "लहू" इत्यस्योत्तरत्राप्यनुवृत्तेः “तत्तो तिघाईणं" ति ततस्त्रयाणां घातिकर्मणां जघन्यस्थितिबन्धः संख्येयगुणः । ततो विंशतिकयोर्नामगोत्रयोर्जघन्यः स्थितिबन्धः संख्येयगुणो ज्ञातव्यः । ततो विशेपाधिकस्तृतीयस्य जघन्य स्थितिबन्धो भवति । तत आयुषो जघन्यस्थितिबन्धः संख्ये गुणो भवेत् । "आउस्स असंखगुणो उक्कोसो" त्ति तस्मादायुष उत्कृष्टस्थितिबन्धोऽसंख्यगुणः । इतस्तूत्कृष्टस्थितिबन्धाभिधायकस्य “उक्कोसो" इति शब्दस्यानुवृत्तेः "वीसगाण भवे संखगुणो” ति विंशतिकयोर्नामगोत्रयोरुत्कृष्ट स्थितिबन्धः संख्येयगुणः, “तो कमसो चउण्ह मोहस्स कभहियो” त्ति ततः क्रमश चतुर्णां ज्ञानावरणादीनां मोहनीयस्य च प्रत्येकमभ्यधिक उत्कृष्टस्थितिबन्धः ।
अयम्भावः-- नामगोत्रयोरुत्कृष्ट स्थितिबन्धापेक्षया ज्ञानावरण-दर्शनावरण- वेदनीया-ऽन्तरायकर्मणां प्रत्येकमुत्कृष्ट स्थितिबन्धो विशेषाधिकः । ज्ञानावरणादीनां चतुर्णामुत्कृष्ट स्थितिबन्धः परस्परं तु तुल्यः । ज्ञानावरणादीनामेकैकस्योत्कृष्टस्थितिबन्धापेक्षया मोहनीयस्योत्कृष्टस्थितिबन्धो विशेषाधिक इति । अनन्तरोक्तैकदेशमपवदन्नाह - "णवरं" इत्यादि नवरं परमयमत्र विशेषः, कोऽसावित्याह"आउस्स लहू" इत्यादि, यत्र स्थाने आयुपोजघन्यस्थितिबन्धः संख्येयगुण इत्युक्तस्तत्रैवाऽसौ तथाऽनुक्त्वाऽसंख्यगुण इति वक्तव्यः, तदपेक्षया च "जेडो" त्ति आयुषो 'ज्येष्ठ' :-उत्कृष्टस्थितिबन्ध: संख्येयगुण इति द्रष्टव्यम्, न पुनः शेषस्थानेषु, अर्थाच्छेषेषु मोहनीयादीनां जघन्योत्कृष्टस्थितिबन्धरूपेषु स्थानेषु तत्तज्जघन्यादिस्थितिबन्धो यथोक्तः स्तोकादिक एव द्रष्टव्य इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org