________________
जघन्योत्कृष्ठस्थितिबन्धाल्पबहुः । द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
[ ४१९ कम्मा-ऽणाहारसु जहण्णगो वीसगाण सव्वप्पो। तो तीसगाण अहियो तत्तो मोहस्स संखगुणो॥५३५॥ तो वीसगाण जेट्टो संखेज्जगुणो तओ विसेसहियो। हवइ खलु तीसगाणं तत्तो मोहस्स संखगुणो ॥५३६॥
(प्रे०) “कम्माणाहारेसु" इत्यादि, कार्मणकाययोगमार्गणायामनाहारकमार्गणायां च विंशतिकयो मगोत्रयोर्जघन्यकः स्थितिबन्धः सर्वाल्पः । ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां प्रत्येकमधिकः-विशेषाधिकः, जघन्यस्थितिबन्ध इत्यावर्तते । ततो मोहनीयस्य संख्येयगुणः, जघन्यस्थितिबन्ध इति प्राग्वदत्रापि युज्यते । ततो विंशतिकयो मगोत्रकर्मणोः 'ज्येष्ठः'-उत्कृष्टः स्थितिबन्धः संख्येयगुणः । कुतः ? इति चेद् , ज्ञानावरणादीनां जघन्यस्थितिबन्धस्यैकेन्द्रियस्वामिकतया पल्योपमासंख्यभागन्यूनसागरोपमत्रिसप्तभागादिप्रमाणत्वाद् , तेषामेवोत्कृष्टस्थितिबन्धस्य तु संज्ञिपञ्चेन्द्रियस्वामिकतयाऽन्तःकोटीकोटीसागरोपमप्रमाणत्वाच्च भवति संख्येयगुणत्वम् । ततो विशेगाधिको भवति, उत्कृष्ट स्थितिबन्ध इत्यनुवर्तते । कस्येत्याह"खल तीसगाणं" ति त्रिंशत्कानां ज्ञानावरणादीनां चतुणां प्रत्येकम् । खलुशब्दः पादपूरणे । ततो मोहनीयकर्मणः संख्येयगुणः, उत्कृष्टस्थितिबन्ध इति पूर्ववदनुवृत्त्या बोद्भव्यमिति ॥५३५-५३६॥
गयवेए सव्व ऽप्पो मोहस्स लहू तओ तिघाईणं । तो वीसगाण कमसो संखेज्जगुणो मुणेयब्वो ॥५३७॥ तो तइयस्सऽभहियो तो जेट्टो तेण चिअ कमेण कमा। संखगुणो संखगुणों असंखियगुणो विसेसहियो ॥५३८॥
(प्रे०) "गयवेए सव्वाप्पो" इत्यादि, अपगतवेदमार्गणायां सर्वाल्पः । कः ? इत्याह"मोहस्स लहू"त्ति मोहनीयकर्मणो जघन्यस्थितिबन्धः । “तओ तिघाईणं"ति'लहू' इति पदानुवचा ततस्त्रयाणां ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानांघातिकमगां'लघुः-जघन्यःस्थितिबन्धः, ततो विंशतिकयो मगोत्रकर्मणोर्जघन्यस्थितिबन्धः क्रमशः संख्येयगुणो ज्ञातव्यः । ततस्तृतीयस्य वेदनीयकर्मणोऽभ्यधिकः; जघन्यस्थितिबन्ध इत्यनुवर्तते । “तो जेहो" त्ति तत एतेषामेव ज्ञानावरणादिकर्मणां'ज्येष्ठः'-उत्कृष्टः स्थितिबन्धः । केन क्रमेण कियाँश्चेत्याह-"तेण चिअ कमेणे" त्यादि, तेनानन्तरोक्तंन क्रमेणादो मोहनीयकर्मणस्ततस्त्रिघातिनां ततो विंशतिकयोस्ततस्तृतीयस्य वेदनीयस्य क्रमात्संख्येयगुणः संख्येयगुणोऽसंख्येयगुणो विशेषाधिकश्च । अयम्भाव:वेदनीयस्य जघन्यस्थितिबन्धो विशेषाधिक उक्तस्ततो मोहनीयस्योत्कृष्ट स्थितिबन्धः संख्येयगुणः, ततः शेषाणां त्रयाणां घातिनां प्रत्येकमुत्कृष्टस्थितिबन्धः संख्येयगुणः, ततो नामगोत्रयोः प्रत्येक
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only