________________
४१८ ]
बंधाणे मूलपडिबिंधो [ मार्गणास्वष्टमूलप्रकृतीनां परस्थाने
(प्रे०) "विक्कियमीसे मीसे" इत्यादि, वैक्रियकाययोगमार्गणायां मिश्रदृष्टिमार्गणायां च प्रत्येकं "वोसगाण" त्तिविंशतिकयोर्नामगोत्रकर्मणोर्जघन्य एव जघन्यकः स्थितिबन्धः सर्वा - ल्पः, ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण- वेदनीयान्तरायकर्मणाम् " अहियो" ति विशेषाधिकः, जघन्यस्थितियन्त्र इत्यनुवर्तते । ततो मोहनीयस्य स्थितिबन्धोऽभ्यधिकः, स च प्रागुक्तस्य " जहण्णगो" इत्यस्याsत्राप्यनुवर्तनाज्जन्य इति गम्यते । ततो विंशतिकयोर्नामगोत्र कर्मणोः ‘ज्येष्ठः’-उत्कृष्टः स्थितिबन्धः संख्येयगुणः । तस्मात् त्रिंशत्कानां ज्ञानावरण-दर्शनावरण- वेदनीया--- न्तरायकर्मणां प्रत्येकम् 'अधिकः' - विशेषाधिकः "जेडो" इत्यस्यानुवृत्तेरुत्कृष्टस्थितिबन्ध इत्यवसीयते । एवमुत्तरत्रापि तदनुवृत्तेः "मोहस्स उ संखगुणो" ति मोहनीयस्य 'ज्येष्ठः ' -उत्कृष्टस्थितिबन्धः संख्येयगुणः । इदमेव चरमपदमाश्रित्य मिश्रदृष्टिमार्गणायां याऽतिप्रसक्तिस्तामपसिपारयिषुराह"णवरं मोसे विसेसहियो" ति 'नवरं" - परमयं चरमपदोक्तो मोहनीयस्योत्कृष्ट स्थितिबन्धो मिश्र दृष्टिमार्गणायां तु विशेषाधिक एव मन्तव्यः, न पुन: संख्येयगुणः, वैक्रियमिश्रमार्गणायां मिथ्यात्वस्य बन्धेऽपि मिश्रदृष्टिमार्गणायां तद्वत्वाभावादिति भाव इति ।। ५३० ५३१ ॥
आहारदुगे देसे तह परिहारम्मि आउगस्स लहू | सव्वत्थोवो तत्तो उकोसो होइ संखगुणो ॥ ५३२॥ तो वीतगाण हस्सो संखगुणो ताउ तीसगाण भवे । अमहियो ताहिन्तो मोहस्स भवे विसेसहियो ॥५३३॥ तो वीस गाण जेहो संखगुणा ताउ तीसगाण भवे । अमहियो तो यो मोहस्स विसेसओ अहियो ॥ ५३४ ||
(प्रे०) “आहारदुगे देखें" इत्यादि, आहारका ऽऽहारक मिश्रकाययोगमार्गणयोर्द्वि है, देशसंयमे, परिहारविशुद्धिकसंयममार्गणायां चायुष्कस्य 'लघुः' - जवन्यः स्थितिबन्धः सर्वलोकः । ततः “उक्कोसो” त्ति “आउगस्स" इत्यस्यानुवर्तनादायुन उत्कृष्टः स्थितिबन्धः संख्ये गुणो भवति । ततो विंशतिकयोर्नामगोत्रकर्मणोः 'ह्रस्व:'- जघन्यः स्थितियन्त्रः संख्येयगुणः । तस्मात् त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया - ऽन्तरायाणां प्रत्येकं "हस्सो" इत्यस्यानुवृत्तेः 'ह्रस्वः'- जघन्यस्थितिबन्धः 'अभ्यधिकः'- विशेषाधिको भवेदित्यर्थः । " ताहिन्तो" ति तस्मात् "मोहस्स भवे विसेसहियो' ति 'ह्रस्वे' तिपदस्यात्रापि योजनान्मोहनीयस्य जघन्यः स्थितिको भवेदित्यर्थः । ततो विंशतिकयोर्नामगोत्रकर्मणोः 'ज्येष्ठ: - उत्कृष्टः स्थितिबन्धः संख्ये वगुणः । तस्मात् त्रिंशत्कानामभ्यविको भवेत्, ततो मोहनीयस्य विशेषतोऽभ्यधिको ज्ञातव्यः । अत्रापि चिरमपदे चरमपदे च ज्येष्ठशब्दानुवृच्या ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धो बोद्धव्य इति ॥ ५३२-५३४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org