SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ जघन्योत्कृष्ठस्थितिबन्धाल्पबहु० द्वितीयाधिकारेऽल्पबहुत्त्रद्वारम् [ ४१७ यस्य जघन्यः संख्येयगुणः, ततः शेषत्रिघातिनां प्रत्येकं जघन्यः स्थितिबन्धः संख्येयगुणः, ततो नामगोत्रयोर्जघन्योऽसंख्यगुणः, ततो वेदनीयस्य जघन्यो विशेषाधिकः, तत आयुष उत्कृष्टः स्थितिबन्धोऽसंख्यगुणः, ततो नामगोत्रयोरुत्कृष्टः संख्येयगुणः, ततो ज्ञानावरणादीनां चतुर्णामुत्कृष्टो विशेषाधिकः, ततो मोहनीयस्योत्कृष्टस्थितिबन्धः संख्येयगुण इति ॥५२५-५२६॥ ठिइबंधो सव्वेसु एगिदिय-विगल-पंचकायेसु। आउस्सऽप्पो हस्सो तत्तो परमो उ संखगुणो ॥५२७॥ तो वीसगाण हस्सो असंखियगुणो तओ भवे तेसिं । जेट्ठोऽभहियो तत्तो अव्भहियो तीसगाण लहू ॥५२८॥ तेसिं चिअ उक्कोसो विसेसअहिओ तओ य संखगुणो । मोहस्स लहू तत्तो तस्सुकोसो विसेसहियो ॥५२९॥ (प्रे०) "ठिइबंधो सव्वेसु” इत्यादि, "ठिइबंधो" इत्यस्य “आउस्सप्पो हस्सो" इत्यादिना परेणान्वयस्तत आयुषो ह्रस्वः स्थितिबन्धः स्तोको भवति । कासुमार्गणास्वित्याह"सव्वेसु” इत्यादि, सर्वेष्वेकेन्द्रियभेदेषु, सर्वेषु विकलेन्द्रियभेदेषु, सर्वेषु पृथिव्यादिपञ्चकायसत्कभेदेषु, इत्येवमेतासु पञ्चपञ्चाशन्मार्गणास्वित्यर्थः । ततः पुनः किमित्याह-"तत्तो परमो" इत्यादि, "तत्तो” ति तस्मादायुषो जघन्यस्थितिबन्धात् “परमो” ति “आउस्स” इत्यस्यानुवत्तेरायुष एव 'परमः' -उत्कृष्टः स्थितिवन्धः “उ संखगुणो" ति संख्येयगुणः । तुः पादपूत्यें । ततो विंशतिकयोर्नाम-गोत्रयोः 'ह्रस्वः' जघन्यः स्थितिबन्धोऽसंख्येयगुणः, ततः "तेसिं" ति "दुवयणे बहुवयणं" इति प्राकृतलक्षणात् 'तयोः'-अनन्तरोक्तयोर्नामगोत्रकर्मणोः 'ज्येष्ठः'-उत्कृष्टस्थितिबन्धोऽभ्यधिकः-विशेषाधिक इत्यर्थः । ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीयाऽन्तरायकर्मणां "लहू" ति जघन्यः स्थितिबन्धोऽभ्यधिक इति पूर्वेणान्वयः । “तेसिं चि" त्ति तेषामनन्तरोक्तानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणामेवोत्कृष्टः स्थितिबन्धो विशेषाधिकः, ततश्च संख्येयगुणः । क इत्याह-"मोहस्स लहू" ति मोहनीयकर्मणो जघन्यस्थितिबन्धः । ततः "तस्सुक्कोसो" त्ति तस्यैव मोहनीयकर्मण उत्कृष्टस्थितिबन्धो विशेषतोऽभ्यधिकः, विशेषाधिक इत्यर्थ इति ॥५२७-५२८-५२९॥ विकियमीसे मीसे जहण्णगो वीसगाण सव्वऽप्पो। तो तीसगाण अहियो तत्तो मोहस्स अब्भहियो॥५३०॥ तो वीसगाण जेट्ठो संखगुणो ताउ तीसगाणऽहियो। मोहस्स उ संखगुणो णवरं मीसे विसेसहियो ॥५३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy