________________
४१६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वष्टप्रकृतीनां परस्थाने त्ति अकारस्य दर्शनादनन्तरोक्तस्य "हस्सो ” इत्यस्याऽनुवर्तनाच्च जघन्यस्थितिबन्धः 'अधिक'विशेषाधिकः, ततः क्रमात्संख्येयगुणः, केपामित्याह - " मोहस्स तओऽत्थि " ति मोहनीयकर्मणः, अस्यापि जघन्यस्थितिबन्धो बोद्धव्यः । कुतः ? पूर्ववद् “हस्सो ” इतिपदस्यानुवृत्तेः, ततो विंशतिकयोर्नामगोत्रकर्मणोः । अनयोः को जघन्य उत्कृष्टो वेत्याह- "गुरु" त्ति उत्कृष्टः स्थितिबन्धः । अयम्भावः - ज्ञानावरणादीनां चतुर्णां जघन्यस्थितिबन्धान्मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुणः, ततश्च नामगोत्रयोरुत्कृष्टस्थितिबन्धः संख्येयगुणः, ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण- वेदनीया-ऽन्तरायकर्मणामविकः विशेषाधिकः, स च गुरुशब्दानुवृत्तेरुत्कृप्टस्थितिबन्धोऽवसातव्यः । एवमग्रे ऽपि ततो मोहनीयस्योत्कृष्ट स्थितिबन्धः संख्येयगुणो भवतीति । तदेवं सामान्यतोऽभिहिते याऽतिप्रसक्तिस्तां निराचिकीर्षु राह - "णवरं" इत्यादि, परमयमत्र विशेषः, कोऽसावित्याह - "मोहस्से "त्यादि । अयम्भावः - तेजोलेश्यामार्गणायां पद्मलेश्यामार्गणायांच प्रत्येकमनन्तरोक्ताल्पबहुत्वं न सर्वथाऽनन्तरोक्तं तथैव, किन्तु ज्ञानावरणस्य जघन्यस्थितिबन्धादूर्ध्वं मोहनीयस्य जघन्यस्थितिबन्धो विशेषाधिको द्रष्टव्यः, अन्यपदेषु तु यथोक्त एव तदन्यमार्गणासु तु निरपवादं यथोक्त एवेति ।।५२२-५२३-५२४।। अपर्याप्तमनुष्यमार्गणायां प्रागभिहितत्वेन क्रमप्राप्तासु शेषमनुष्य मार्गणास्वतिदिदिक्षुः प्रसंगादन्यमार्गणास्वपि सममेवातिदिशन्नाह - णरतिग-दुपणिंदिय-तस-पणमणवणे कारासु । वेअतिग- कसायचउग-चक्खु अचक्खु भवियेसु च ॥५२५॥ सणिम्मि तहा - SSहारे ओघव्व हवइ परं णपुम-थीसु ।
यो असंखियगुणो जहण्णगो णामगोआणं ॥ ५२६॥
(प्रे० ) " णरतिगदुपणिदिये" त्यादि, अपर्याप्तमनुष्य भेदवर्जेषु त्रिषु नरगतिभेदेषु तथैवाऽपर्याप्तपञ्चेन्द्रियभेदवर्जयोर्द्वयो पञ्चेन्द्रियजातिभेदयोस्तथैव द्वयोस्त्रसकायौध-पर्याप्तत्र सकायभेदयोः, पञ्चमनोयोगभेदेषु पञ्चषु वचोयोगभेदेषु, काययोगसामान्यौ -हारिक काययोगमार्गणयोः, स्त्री-पु-नपुंसक वेदरूपे वेदत्रिके, क्रोधादिकपायचतुष्के, चक्षुदर्शनाऽचक्षुर्दर्शन- भव्यमार्गणासु, चः समुच्चये, व्युत्क्रमेण योज्यः, ततश्वसंज्ञिमार्गणायां तथाऽऽहारिमार्गणायां चेत्येतास्वे कत्रिंशन्मार्गणासु प्रत्येकम् “ओघव्व हवइ" त्ति प्रकृताल्पबहुत्वमोघवद्भवति । अतिदिष्टार्थेऽघटमानार्थमपत्रदनाह - " पर "मित्यादि, परमयमत्र विशेषः, स च "णपुमथोसु णेयो" ति नपुंसकवेदमार्गणायां स्त्रीवेदमार्गणायां च ज्ञातव्यः । कोऽसावित्याह- "असंखियगुणो" इत्यादि । अयम्भावःत्रयाणां घातिकर्मणां जघन्यस्थितिबन्धं मोहनीयजघन्यस्थितिबन्धापेक्षया संख्येयगुणमुक्त्वाऽनन्तरं नामगोत्रकर्मणो जघन्यस्थितिबन्ध औविकाल्पबहुत्वे यः संख्येयगुण उक्तः सोऽत्राऽसंख्येयगुणो ज्ञेयः । तद्यथा - नपुंसकवेद - स्त्रीवेदमार्गणयोरायुषो जघन्यः स्थितिबन्धः स्तोकः, ततो मोहनी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International