SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४१४ ] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वष्टप्रकृतीनां परस्थाने भणितार्थेन सादृश्यबाहुल्याल्लाघवार्थी कतिपयमार्गणासु सापवादमतिदिशति-- एमेव जाणियव्वं सेसणिरयदेव-विउवेसु॥५१७॥ णवरं मोहस्स लहू विसेसअहिओ हवेज्ज एएसु। पणऽणुत्तरेसु णेयो मोहस्स गुरू वि अब्भहियो ॥५१८॥ (प्रे०) “एमेवे" त्यादि, प्राकृतत्वेन वकारस्य लुप्तत्वाद् “एमेव" ति एवमेव, तत्रैवंशब्दस्य सादृश्यार्थित्वेन यथाऽव्यवधानेन मार्गणादशकेऽल्पबहुत्वमभिहितं तथैव "जाणियव्वं" ति वक्ष्यमाणमार्गणास्वल्पबहुत्वं ज्ञातव्यमित्यर्थः । कासु मार्गणास्वित्याह-"सेसणिरयदेवविउवेसु" ति अनन्तरोक्ता निरयगत्योघ-प्रथमनरक-देवगत्योध-भवनपति-व्यन्तरभेदरूपा याः पञ्च निरयगतिदेवगतिसत्का मार्गणास्तास्त्यक्त्वा शेषासु षट्षु निरयगतिमार्गणासु, शेषासु सप्तविंशतिदेवगतिमार्गणासु तथा वैक्रियकाययोगमार्गणायां चेत्यर्थः । किमतासु चतुस्त्रिंशन्मार्गणासु सर्वथैव नरकौघप्रथमनरकमार्गणादिवदुतास्ति कश्चिद्विशेषोऽपीत्याह-"णवरमि" ति नवरं-परमयमत्र विशेषः । कोऽसावित्याह-"मोहस्स" इत्यादि "पणणुत्तरेसु" इत्यादि च । तस्यायमर्थ:-चतुस्त्रिंशन्मार्गणाभ्योऽनुत्तरविमानवर्जास्वेकोनत्रिंशन्मार्गणासु प्रत्येकमतिदेशानुसारेण पूर्वोक्तक्रमतोऽल्पबहुत्वेऽभिधीयमाने ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां जघन्यस्थितिबन्धो यथोक्तस्थाने पूर्वपदापेक्षया विशेषाधिक इत्युक्त्वा तदनन्तरं मोहनीयकर्मणो 'लघुः' -जघन्यः स्थितिबन्धः प्राग्वत् संख्येयगुणो न वक्तव्यः, किन्तु विशेषाधिको वक्तव्यः, एतासु जघन्यस्थितिबन्धस्वामिनां मिथ्यात्वस्याबन्धात् । ततस्तु पूर्ववद् यथाक्रमं तथैव । पञ्चानुत्तरविमानसत्कमार्गणाभेदेषु वित्थमेव मोहनीयकर्मणो जघन्यस्थितिबन्धो विशेषाधिक इति वक्तव्यम् , अन्यच्च चरमपदे मोहनीयस्य गुरुः स्थितिबन्धः पूर्ववर्तिपदापेक्षया विशेषाधिक इत्यपि वक्तव्यम् । कुतः ? तत्र सर्वेषां सम्यग्दृष्टितयोत्कृष्टस्थितिबन्धस्वामिनामपि मिथ्यात्वस्यावन्धेन “वि अन्भहियो' इत्यत्रापिशब्दस्यानन्तरापोदितार्थसमुच्चायकतयोपादानादिति । इत्थं हि द्वितीयपृथिवीनिरयभेदायकोनत्रिंशन्मार्गणासु प्रत्येकमायुषो जघन्यस्थितिबन्धः सर्वस्तोकः, ततस्तस्यैवोत्कृष्टस्थितिबन्धः संख्येयगुणः, ततो नामगोत्रयोर्जघन्यस्थितिबन्धःसंख्येयगुणः,ततो ज्ञानावरणादीनां चतुणों विशेषाधिकः, ततो मोहनीयस्य विशेषाधिकः, ततो नामगोत्रयोरुत्कृष्टस्थितिबन्धः संख्येयगुणः, ततो ज्ञानावरणादीनां चतुर्णामुत्कृष्टो विशेषाधिकः, ततो मोहनीयस्योत्कृष्टः संख्येयगुण इत्येवमल्पबहुत्वं भवति । पश्चानुत्तरविमानेषु तु चरमपदेऽपि मोहनीयस्योत्कृष्टस्थितिबन्धो विशेषाधिक इत्यभिधातव्यमिति ॥५१७५१८।। तिरिय-अणाणदुगा-ऽयत-तिअसुहलेसा-अभविय-मिच्छेसु। आउस्स लहू थोवो तत्तो दोण्हं असंखगुणो ॥५१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy