SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ जघन्योत्कृष्टस्थितिबन्धाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम् [४१३ संख्येयगुणः, ज्येष्ठस्थितिबन्ध इत्यनुवर्तते, क्रमादिति शेषः। “तो तिसगाण" ति ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणाम् “अहियो" त्ति विशेषाधिकः । “तत्तो मोहस्स संखगुणो” त्ति ततो मोहनीयस्य संख्येयगुणः, उत्कृष्टस्थितिबन्ध इत्युभयत्राप्यनुवृत्या बोद्धव्यम् । इदमप्यल्पबहुत्वं स्थितिबन्धप्रमाणानुसारेण प्राग्वत्स्वयमेव भावनीयम्, वक्ष्यमाणादेशप्ररूपणायामप्येवं तत्तन्मार्गणोक्त स्थितिबन्धप्रमाणानुसारेण प्रागिवाभ्युह्यमिति ।।५११-५१२-५१३।। उक्तमोघतो जघन्योत्कृष्टपदद्वयसम्बन्धि परस्थानाल्पबहुत्वम् । अथ तदेवादेशत आहणिरय-पढमणिरयेसु सुर-भवण-दुगेसु उरलमीसे य । असमत्तपणिदितिरिय-मणुस-पणिदिय-तसेसुय ॥५१४॥ आउस्स लहू थोवो तत्तो परमो हवेज्ज संखगुणो। तो वीसगाण हस्सो असंखियगुणो मुणेयवो ॥५१५॥ तो तीसगाण अहिओ तत्तो मोहस्स होइ संखगुणो। तो वीसगाण जेट्ठो संखेज्जगुणो मुणेयव्वो ॥५१६॥ तो तीसगाण अहिओ तत्तो मोहस्स होइ संखगुणो। (प्रे०) "णिरयपढमणिरयेसु” इत्यादि, नरकौघ-प्रथमपृथिवीनरकभेदयोः, “सुर” त्ति सुरगत्योधे,भवनपति-व्यन्तरदेवभेदयोः,औदारिकमिश्रकाययोगेच । अन्यमार्गणासङ्ग्रहायाह-''असमत्ते" त्यादि, तत्र “असमत्त" शब्दस्य प्रत्येकं योजनादपर्याप्तपञ्चेन्द्रियतिर्यग-पर्याप्तमनुष्याऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकायमार्गणास्वित्यर्थः । चकार उक्त समुच्चये । तत एतासु समुच्चितासु दशमार्गणासु प्रत्येकम् “आउस्स लहु थोवो” ति आयुषः 'लघुः'-जघन्यः स्थितिवन्धः स्तोकः । “ततो परमु" ति ततस्तस्यैवाऽऽयुषः 'परमः'-उत्कृष्टः स्थितिबन्धः "हवेज्ज संखगुणो" ति संख्येयगुणो भवेत् । “तो वीसगाणे"त्यादि, ततो विंशतिकयो मगोत्रकर्मणोः 'ह्रस्वः'-जघन्यस्थितिबन्धोऽसंख्यातगुणो ज्ञातव्यः। "तो तीसगाण" ति ततस्त्रिंशत्कानांज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां प्रत्येकम् “अहिओ" त्ति विशेषाधिकः, जघन्यस्थितिबन्ध इत्यनुवर्तते । “ततो मोहस्स" ति ततो मोहनीयकर्मणः "होइ संखगुणो" ति संख्येयगुणो भवति, जघन्यस्थितिबन्ध इत्यावर्तते । “तो वीसगाणे"त्यादि, ततो विंशतिकयोर्नामगोत्रयोज्येष्ठः'-उत्कृष्टः स्थितिबन्धः संख्येयगुणो ज्ञातव्यः । "तो तीसगाण अहिओ" त्ति ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां प्रत्येकं विशेषाधिकः, ज्येष्ठस्थितिबन्ध इत्यनुवर्तते । “तत्तो मोहस्स” ति ततो मोहनीयकर्मणः "होइ संखगुणो" त्ति प्राग्वत् "जेहो" इत्यस्याऽत्राप्यनुवर्तनादुत्कृष्टस्थितिबन्धः संख्येयगुणो भवतीति ॥५१४-५१५-५१६।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy