SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४१२] बंधविहाणे मूलपयडिठिइबंधो [ओघतोऽष्टप्रकृतीनां परस्थाने सेसासु आउस्स उ थोवो दोण्हं तओ असंखगुणो। तो तीसगाण अहियो तत्तो मोहस्स संखगुणो ॥५१०॥ (प्रे०) "सेसासु” इत्यादि, अनन्तरं पृथक् पृथगुक्ता द्वितीयपृथिवीनरकभेदायकोननवतिमार्गणा विवज्य शेषासु नरकगत्योघभेदायकोनाशीतिमार्गणःसु प्रत्येकमायुषो जघन्यः स्थितिबन्धः “थोवो” त्ति सर्वस्तोकः । “दोण्हं तओ"त्ति ततो द्वयोर्नामगोत्रकर्मणोरसंख्यगुणः, जघन्यस्थितिबन्ध इति प्राग्वद्गम्यते । “तो” त्ति ततो नामगोत्रयोजघन्यस्थितिबन्धात् त्रिंशत्कानां ज्ञानावरण-दर्शनावरणा-ऽन्तरायकर्मणामधिकः-विशेषाधिकः । ततो मोहनीयकर्मणो जघन्यस्थितिवन्धः संख्येयगुण इति । शेषमार्गणा नामत इमाः-नरकगत्योध-प्रथमपृथिवीनरकभेदो, पञ्चापि तिर्यग्गतिभेदाः, अपर्याप्तमनुष्यभेदः, देवगत्योध-भवनपति-व्यन्तरदेवभेदाः, सर्व एकेन्द्रियभेदाः, सर्वे विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियभेदः, पृथिवीकाया-ऽप्काय-तेजस्काय-वायुकाय-वनस्पतिकायसत्काः सर्वे भेदाः, अपर्याप्तत्रसकायभेदः, औदारिकमिश्रकाययोग-मत्यज्ञान-श्रताज्ञान-विभङ्गज्ञाना-ऽसंयम-कृष्ण-नील-कापोतलेश्या-ऽभव्य-मिथ्यात्वा-ऽसंज्ञिमार्गणाभेदाश्वेति ॥५१०॥ . तदेवं जघन्यस्थितिबन्धमधिकृत्याप्युक्तमष्टानां मूलप्रकृतीनां परस्थानाल्पबहुत्वमादेशतोऽपि । साम्प्रतं पुनस्तदेव जघन्योत्कृष्टस्थितिबन्धद्वयमधिकृत्य व्याजिही रादौ तावदोघत आह सबऽप्पो ठिइबंधो आउस्स जहण्णगो मुणेयव्यो। ताहिन्तो णायव्वो संखेज्जगुणो उ मोहस्स ॥५११॥ तो तिण्हं घाईणं संखगुणो ताउ णामगोआणं।। संखेज्जगुणो तत्तो तइअस्स विसेसओऽभहियो ॥५११॥ ताऽऽउस्स असंखगुणो जेट्टो तो वीसगाण संखगुणो। तो तीसगाण अहिओ तत्तो मोहस्स संखगुणो ॥५१३॥ (प्रे०) “सव्वाप्पो” इत्यादि, सर्वाल्पः स्थितिबन्धो 'ज्ञातव्य' इति परेणान्वयः । कथम्भूतः ? इत्याह-"आउस्स जहण्णगो” ति साधिकक्षुल्लकभवप्रमाणो य आयुकर्मणो जघन्यः स्थितिबन्धः स इत्यर्थः । “ताहिन्तो" ति तस्मात् मोहनीयकर्मणः संख्यातगुणो ज्ञातव्यः, जघन्यस्थितिबन्ध इत्यनुवर्तते । “तो तिण्ह"मित्यादि, ततस्त्रयाणां घातिकर्मणां संख्येयगुणः, जघन्यस्थितिबन्ध इत्यनुवर्तते । एवमुत्तरत्रापि तदनुवृत्तेः “त्ताउ नामगोआण” ति ततो नामगोत्रकर्मणोर्जघन्यस्थितिबन्धः संख्येयगुणः । ततस्तृतीयस्य वेदनीयकर्मणो जघन्यस्थितिबन्धः 'विशेषतोऽभ्यधिकः'-विशेषाधिक इत्यर्थः । “ताऽऽउस्स” त्ति तत आयुःकर्मणो 'ज्येष्ठः'-उत्कृष्टः स्थितिबन्धोऽसंख्यगुणः । "तो वीसगाणं" ति ततो विंशतिकयो मगोत्रकर्मणोः “संखगुणो” त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy