SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ जघन्यस्थितिबन्धाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम् [ ४११ तो वीसियाण यो संखगुणो तो विसेसओऽभहियो। तइअस्स हवइ तत्तो आउस्स हवेज संखगुणो ॥५०६॥ (प्रे०) “णाणतिगे” इत्यादि, “गाणतिगे" ति मनःपर्यवज्ञानमार्गणायामनन्तरं वक्ष्यमाणत्वात् तां विहाय शेषाणां मति-श्रुता-ऽवधिज्ञानमार्गणानां त्रिक-ज्ञानत्रिके, “ओहिम्मि" ति अवघिदर्शनमार्गणायां, चकारस्समुच्चयार्थो भिन्नक्रमश्च “सम्मखइएसु' इत्यस्योत्तरं योज्यस्ततः "सुइल" त्ति शुक्ललेश्यामार्गणायां "सम्मखइएसु" ति सम्यक्त्वोधमार्गणायां क्षायिकसम्यक्वमागेणायां चेत्येतासु सप्तमार्गणासु प्रत्येकं ज्ञातव्य इत्यर्थः । कः कियानित्याह-"मोहस्स सव्वथोवो” इत्यादि, मोहनीयकर्मणो जघन्यस्थितिवन्धः सर्वस्तोकः । ततो ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानां त्रयाणां घातिकर्मणां प्रत्येकं जघन्यस्थितिबन्धः संख्येयगुणः । ततो विंशतिकयोर्नामगोत्रकर्मणोः प्रत्येकं जघन्यस्थितिबन्धः संख्येयगुणः । ततो 'विशेषतोऽभ्यधिक:'-विशेषाधिको जघन्यस्थितिबन्धः "तइअस्स हवई" ति तृतीयस्य वेदनीयकर्मणो भवति, तत आयु:कर्मणो जघन्यस्थितिबन्धः संख्येयगुणो भवेदिति ॥५०५-५०६।। मणणाण संयमेसु समइअछेएसु होइ सव्वप्पो। मोहस्स तओ णेयो तिण्डं घाईण संखगुणो ॥५०७॥ तो वीसगाण णेयो संखगुणो तो विसेसओऽभहियो । तइअस्स हवइ तत्तो आउस्स भवे असंखगुणो ॥५०८॥ (प्रे०) "मणणाण” इत्यादि, मनःपर्यवज्ञानमार्गणायां संयमोघमार्गणायां तथा सामायिकछेदोपस्थापनसंयममार्गणयोः प्रत्येकं मोहनीयकर्मणो जघन्यस्थितिबन्धः सल्पिो भवति। ततस्त्रयाणां-ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानां घातिकर्मणां प्रत्येकं जघन्यस्थितिबन्धः संख्येयगुणो ज्ञेयः । ततो विंशतिकयो मगोत्रकर्मणोः प्रत्येकं जघन्यस्थितिबन्धः संख्येयगुणो ज्ञेयः । ततो विशेषतोऽभ्यधिकस्तृतीयस्य वेदनीयकर्मणो जघन्यस्थितिवन्धो भवति । ततः पुनरायुषो जघन्यस्थितिबन्धोऽसंख्यगुणो भवेदिति ॥५०७-५०८।। सुहुमम्मि तिघाईणं सव्वप्पो ताउ णामगोआणं । संखेजगुणो तत्तो तइअस्स विसेसओअहिओ॥५०९॥ (प्रे०) "सुहुमम्मि तिघाईणमि"त्यादि, सूक्ष्मसम्परायसंयममार्गणायां मोहनीयस्याऽबन्धाच्छेषाणां ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानां त्रयाणां घातिकर्मणां जघन्यस्थितिबन्धः सर्वाल्पः । तस्मात् नामगोत्रयोः प्रत्येकं जघन्यस्थितिबन्धः संख्येयगुणः, ततस्तृतीयस्य वेदनीयकर्मणो जघन्यस्थितिबन्धो विशेषाधिको भवतीत्यर्थः ॥५०९॥ उक्तशेषमार्गणास्वाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy