________________
[ ४०९
मार्गणास्वष्टकर्मणां परस्थाने जघन्यस्थिति० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
आउस्स जहण्णोऽप्पो कमसो मोहस्स तो तिघाईणं । तो वीसगाण संखियगुणो तओ साहिओ उ तइअस्स ॥४९८॥ (प्रे०) “णरतिगदुपणिंदिये" त्यादि, तत्र "णरतिगे' इत्यनेना-ऽपर्याप्तभेदवर्जास्त्रयो मनुष्यगतिमार्गणाभेदा गृह्यन्ते, एवं पञ्चेन्द्रियत्रसयोः प्रत्येकं योज्यद्विशब्देनाऽप्यपर्याप्तभेदवों द्वौ पञ्चेन्द्रियजातिभेदो, अपर्याप्तभेदवौं द्वौ त्रसकायभेदौ च ग्राह्यौ, तासु सप्तमार्गणासु तथा पञ्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यौ-दारिककाययोग-पुरुषवेद-क्रोधादिचतुःकषाय-भव्य-चक्षुर्दर्शनाऽचक्षुर्दर्शना-ऽऽहारि-संज्ञिमार्गणास्वित्येतासु समुदितास्वेकोनत्रिंशन्मार्गणासु प्रत्येकमित्यर्थः । एतासु किमित्याह-“आउस्से” इत्यादि, ओघवदायुषो जघन्यस्थितिबन्धः 'अल्प:-'सर्वाल्पः, क्रमशो मोहनीयस्य, ततस्त्रिघातिकर्मणां, ततो विंशतिकयोः संख्येयगुणः स्थितिबन्धः । ततः “साहिओ उ” ति 'साधिकः'-विशेषाधिकस्तु तृतीयस्य । अयम्भावः-आयुषो जघन्यस्थितिबन्धापेक्षया मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुणः, ततश्च शेषाणां ज्ञानावरण-दर्शनावरणाऽन्तरायलक्षणानां त्रयाणां घातिकर्मणां प्रत्येकं जघन्यस्थितिबन्धः संख्येयगुणः, ततो विंशतिकयोर्नामगोत्रकर्मणोर्जघन्यस्थितिबन्धः संख्येयगुणः, ततश्च तृतीयस्य वेदनीयकर्मणो जघन्यस्थितिबन्धो विशेषाधिक इत्येवं मनुष्यगत्योघादिमार्गणासु प्रस्तुताल्पबहुत्वं सर्वथौघवदेवेति ॥४९७-४९८॥
विकियमीसे मीसे सव्वऽप्पो वीसगाण णायव्यो।
तो तीसियाण तत्तो मोहस्स कमा विसेसहियो ॥४९९॥ (प्रे०) "विक्कियमोसे" इत्यादि, वैक्रियमिश्रकाययोगमार्गणायां मिश्रदृष्टिमार्गणाभेदे चायुषोऽबन्धात्तच्छेषेषु सर्वाल्पो जघन्यस्थितिबन्धो विंशतिकयो म-गोत्रकर्मणोतिव्यः । ततस्त्रिशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां ततो मोहनीयकर्मणः क्रमाद्विशेषाधिकः, जघन्यस्थितिबन्ध इति गम्यते । कुतो विशेषाधिकः ? इति चेद् , मार्गणाद्वयेऽपि जघन्यस्थितिवन्धकानां मिथ्यात्वमोहनीयस्याऽबन्धादिति ॥४९९||
कम्मा-ऽणाहारसुसब्बप्पो वीसगाण णायब्वो। तो तीसियाण अहियो तत्तो मोहस्स संखगुणो ॥५००॥ (प्रे०) “कम्माणाहारेसु" ति कार्मणकाययोगमार्गणायामनाहारकमार्गणायां चोभयत्राप्यायुषोऽबन्धात्सर्वाल्पो जघन्यस्थितिबन्धो विंशतिकयो मगोत्रकर्मणोतिव्यः । ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणाम् “अहियो" ति विशेषाधिकः । ततो मोहनीयकर्मणः संख्येयगुणः, जघन्यस्थितिबन्ध इत्यात्रापि प्राग्वद्गम्यत एवेति । हेतुस्तु मार्गणाद्वयेऽपि जघन्यस्थितिबन्धस्यैकेन्द्रियस्वामिकत्वेन तद्वन्धकाले मिथ्यात्वस्य नियमेन बन्धादिति ॥५००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org