________________
४०८ ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघतोऽष्टानां परस्थाने जघन्यस्थिति० सव्वऽप्पो ठिइबंधी आउस जहण्णगो मुणेयव्वो । ताहिन्तो णायव्वो संखेज्जगुणो उ मोहस्स ॥४९३॥ तत्तो उतिघाणं संखगुणो तो य नामगोआणं । संखेज्जगुणो तत्तो त अस्स विसेसओहिओ ॥४९४ ॥
(प्रे० ) " सव्वऽप्पो" इत्यादि, आयुष जघन्य एव जघन्यकः स्थितिबन्धः सर्वाल्पो ज्ञातव्यः । तस्मादायुषो जघन्यस्थितिबन्धात् मोहनीयकर्मण: संख्येयगुणो ज्ञातव्यः, जघन्यस्थितिबन्ध इत्यनुवर्तते । एवमुत्तरत्रापि जघन्य स्थितिबन्ध इत्यस्यानुवृत्तिर्द्रष्टव्या । " तत्तो उ" सि ततस्तु मोहनीयवर्णानां ज्ञानावरण-दर्शनावरणा-ऽन्तराय लक्षणानां त्रयाणां वातिकर्मणां जघन्यस्थितिबन्धः संख्येयगुणः । ततश्च नाम - गोत्रयोर्जघन्यः स्थितिबन्ध: संख्येयगुणः, ततस्तृतीयस्य वेदनीयकर्मणो जघन्यस्थितिबन्धो 'विशेषतोऽभ्यधिकः', विशेषाधिक इत्यर्थ: ।। ४९३-४९४।। उक्तमोघतः । अथाऽऽदेशतो नरकगत्योघादिमार्गणास्थानेष्वभिधित्सुराह— दुइआइणिरय - जोइस पहुडिसुर - विउब्व- तेउ-पउमासु । अग-सासासु आउस्स लहू भवे थोवो || ४९५॥ ताहिन्तो णायव्वो असंखियगुणो उ णाम- गोआणं । तो तीसियाण तत्तो मोहस्स कमा विसेसहियो ||४९६॥
(प्रे०) "दुइआइणिरये” त्यादि, द्वितीयादिसप्तमपृथिव्यन्तेषु पट्षु निरयगतिभेदेषु, ज्योतिष्कप्रभृतिसर्वार्थसिद्धविमानपर्यन्तेषु सप्तविंशतिसुरगतिभेदेषु, वैक्रियकाययोग-तेजोलेश्या- पद्मलेश्यामार्गणासु, वेदकसम्यक्त्व - सासादनमार्गणयोश्च प्रत्येकमायुषो 'लघुः’जघन्यः स्थितिबन्धः स्तोको भवेत् । ततो नाम- गोत्रयोस्तु लघुस्थितिबन्धोऽसंख्येयगुणो ज्ञातव्यः । ततस्त्रिशत्कानां ज्ञानावरणदर्शनावरण- वेदनीयाऽन्तरायकर्मणां जघन्यस्थितिबन्धः, ततो मोहनीयस्य जघन्यस्थितिबन्धः क्रमाद्विशेषाधिकः, ज्ञातव्य इत्यनुवर्तते । अत्र त्रिंशत्कानां जघन्यस्थितिबन्धापेक्षया मोहनीयजघन्यस्थितिarat विशेपाधिक्यकथनं तत्स्वामिनां सम्यग्दृष्टित्वेन प्रागुक्तनीत्या मिथ्यात्वमोहनीयस्याsबन्धात्, कायमोहनीयापेक्षया तु मूलप्रकृत्यल्पबहुत्वे विशेषाधिक्यस्य लाभाच्चेति । एवमुत्तरत्रापि श्रेणिबहिर्वर्तिनां सम्यग्दृशां मिथ्यात्वमोहनीयस्य बन्धाभावेन बध्यमानमोहनीयोत्तरप्रकृतिसत्कजघन्यस्थितिबन्धापेक्षया विशेषाधिक्यमुपपादनीयमिति ।। ४९५-४९६ ।।
णरतिग-दुपणिंदिय-तस-पणमणवणे कायु-रासु । पुरिस- चउकसाय भविय-णयणियरा - SSहार- सण्णीसु ॥४९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org