SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ [ ४०७ उत्कृष्स्थितिबन्धाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम् (प्रे०) "गयवेए" इत्यादि, ‘गयवेए' ति अपगतवेदमार्गणायां "मोहस्स" ति मोहनीयकर्मणः “सव्वप्पो" ति उत्कृष्टस्थितिबन्धः सर्वाल्पः। "तिघाइगाण" ति मोहनीयस्यानन्तरमेव कथितत्वात् तच्छेषाणां ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानांत्रयाणां 'घातिकानां'-धातिकर्मणां "संखगुणो" ति उत्कृष्टस्थितिवन्धः संख्येयगुणः । "तो दोण्ह असंखगुणो" ति ततो द्वयोर्नामगोत्रकर्मणोरूत्कृष्टस्थितिबन्धोऽसंख्यगुणः। "ततो तइअस्स अब्भहिओ" त्ति ततस्तृतीयस्य वेदनीयकर्मण उत्कृष्टस्थितिवन्धोऽभ्यधिक इति ॥४९०॥ सुहुमम्मि तिघाईणं सव्वप्पो ताउ णामगोआणं । संखेज्जगुणो तत्तो तइअस्स भवे विसेसहियो॥४९१॥ (प्रे०) "सुहुमम्मि" ति सूक्ष्मसम्परायसंयममार्गणायां "तिघाईणं" ति मोहनीयस्याऽबन्धाद् बन्धप्रायोग्यानांत्रयाणां ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानांघातिकर्मणां “सव्वप्पो" त्ति प्रकृतोत्कृष्टस्थितिबन्धः सर्वाल्पः । “ताउ णामगोआणं संखेज्जगणो" त्ति ततो नामगोत्रकर्मणोरुत्कृष्टस्थितिबन्धो संख्येयगुणः । “तत्तो तइअस्से" इत्यादि, सुगमम् , नवरं "तइअस्स" ति वेदनीयकर्मण इति ।।४९१।। अथ शेषसप्तचत्वारिंशन्मागंणासु प्रकृताल्पबहुत्ववक्तव्यता तुल्येतिकृत्वा तासु युगपदाहसेसासु आउस्स उ सव्वप्पो वीसगाण संखगुणो। तो तीसगाण अहिओ तत्तो मोहस्स संखगुणो ॥४९२॥ (प्रे०) “सेसासु आउस्स" इत्यादि,उक्तशेषमार्गणासु पुनः “आउस्स उ सव्वप्पो' आयुष उत्कृष्टस्थितिवन्धः सर्वाल्पः । तुकारः पुनरर्थे भिन्नक्रमश्च, सच प्राग्योजितः । “वोसगाण संखगुणो तो" ति ततो विंशतिकयोर्नामगोत्रकर्मणोः प्रकृतोत्कृष्टस्थितिबन्धः संख्येयगुणः, "तीसगाण अहिओ" त्ति, अनन्तरोक्तस्य "तो" शब्दस्य काकाक्षिगोलकन्यायेनात्रापि योजनात् ततस्त्रिंशत्कानां ज्ञानावरण--दर्शनावरण-वेदनीया-ऽऽन्तरायकर्मणामुत्कष्टस्थितिवन्धः 'अधिकः'विशेषाधिकः । ततश्च मोहनीयकर्मण उत्कृष्ट स्थितिबन्धः संख्येयगुण इति । शेषमार्गणास्त्विमाःतिर्यग्गत्योध-पञ्चेन्द्रियतिर्यगोध-पर्याप्तपञ्चेन्द्रियतिर्यक्-तिरश्ची-मनुष्यगत्योध-पर्याप्तमनुष्य-मानुपीपञ्चेन्द्रियोघ-पर्याप्तपञ्चेन्द्रिय-त्रसकायौघ--पर्याप्तत्रसकाय--पञ्चमनोयोग-पञ्चवचोयोग-काययोगौदारिककाययोग-स्त्री-पु-नपुंसकवेद-क्रोधादिचतुःकषाया-ऽज्ञानत्रया-ऽसंयम-चक्षुर्दर्शना-ऽचक्षुर्दर्शनपल्लेश्या-भव्या-ऽभव्य-मिथ्यात्व-संश्या-ऽऽहारिमार्गणा इति ॥४९२॥ तदेवमुक्तमादेशतोऽप्युत्कृष्टस्थितिबन्धमधिकृत्याप्टानां प्रकृतीनां परस्थानाल्पबहुत्वम् । अथ जघन्यस्थितिबन्धमधिकृत्य प्रचिकटयिपुरादौ तावदोघत आह Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy