________________
१०६]
बंधविहाणे मूलपयडिठिइत्बंधी [ मार्गणास्वष्टमूलप्रकृतीनां परस्थाने (प्रे०) "आहारदुगम्मि तहा" इत्यादि, आहारका-ऽऽहारकमिश्रकाययोगमार्गणादिके, तथा मत्यादिचतुर्ज्ञान-संयमोघमार्गणासु, सामायिकसंयममार्गणायां, छेदोपस्थापनसंयममार्गणायां, परिहारविशुद्धिकसंयममार्गणायां, देशसंयमा-ऽवधिदर्शन-सम्यक्त्वौघ-क्षायिक-वेदकसम्यक्त्वमार्गणासु । चकारः पादपूत्यै । सासादनमार्गणायां चेत्येतासु पोडशमार्गणासु प्रत्येकमायुषः अल्पः'-सर्वस्तोकः, उत्कृष्ट स्थितिबन्ध इत्यनुवर्तते, एवमुत्तरत्रापि । ततो विंशतिकयो मगोत्रकर्मणोरुस्कृष्टस्थितिबन्धः संख्येयगुणः । ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां, ततो मोहनीयकर्मणः “कमा" त्ति 'क्रमाद्'-यथासंख्यं विशेषाधिकः । नामगोत्रयोरपेक्षया ज्ञानावरणादीनां चतुणां विशेषाधिकस्ततो मोहनीयकर्मण उत्कृष्टस्थितिबन्धो विशेषाधिक इत्यर्थः । अत्रापि ज्ञानावरणादीनामुत्कृष्टस्थितिवन्धापेक्षया मोहनीयोत्कृष्टस्थितिबन्धस्य विशेषाधिक्यमनन्तरोक्तनीत्या प्रस्तुतमार्गणाद्वये मिथ्यात्वस्याऽबन्धादवसातव्यम् ॥४८६-४८७।।
विकियमीसे कम्मेऽणाहारे वीसगाण सबप्पो।
तो तीसगाण अहियो ततो मोहस्स संखगुणो ॥४८८॥ (प्रे०) “विक्कियमीसे" इत्यादि, वैक्रियमिश्रकाययोगमार्गणायां "कम्मे" ति कार्मणकाययोगमार्गणायां “णाहारे" त्ति लुप्ताकारस्य दर्शनादनाहारकमार्गणायामित्येतासु तिसृषु प्रत्येकं विंशतिकयो मगोत्रकर्मणोरुत्कृष्टस्थितिबन्धः सर्वाल्पः । ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया ऽन्तरायकर्मणां प्रत्येकम् “अहिओ" ति विशेषाधिकः । ततो मोहनीयकर्मण उत्कृष्टस्थितिबन्धः संख्यातगुणः । आयुःकर्मणः प्रकृतमार्गणात्रयेऽवन्ध एवेति नोक्त इति ॥४८८॥
मीसु-वसमेसु णेयो सव्वप्पो वीसगाण ताहिन्तो।
होएज्ज तीसगाणं तत्तो मोहस्स अब्भहिओ॥४८९॥
(प्रे०) “मीसुवसमेसु” इत्यादि, मिश्रदृष्टिमार्गणायामोपशमिकसम्यक्त्वमार्गणायां च प्रत्येकं विंशतिकयो मगोत्रकर्मणोरुत्कृष्टस्थितिबन्धः सर्वाल्पो ज्ञातव्यः । तस्मात् त्रिंशत्कानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां, ततो मोहनीयकर्मणः 'अभ्यधिकः'-विशेषाधिको भवेद् , उत्कृष्ट स्थितिबन्ध इत्यनुवर्तते, क्रमादितिशेषः । ततश्च नामगोत्रयोरुत्कृष्टस्थितिबन्धापेक्षया ज्ञानावरणादीनां चतुर्णामुत्कृष्टस्थितिबन्धो विशेषाधिकः । ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धापेक्षया मोहनीयस्योत्कृष्ट स्थितिवन्धो विशेषाधिक इति । चरमपदे विशेषाधिक्यं मिथ्यात्वस्याऽबन्धात्प्राग्यद्विज्ञेयमिति ।।४८९॥
गयवेए सव्वऽप्पो मोहस्स तिघाइगाण संखगुणो। तो दोण्ह असंखगुणो ततो तइअस्स अब्भहियो ॥४९०॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International