________________
उत्कृष्टस्थितिबन्धाल्पबहु० ] द्वितीयाधिकारेऽल्पबहुत्वद्वारम्
[ ४०५ ल्पबहुत्वस्यापि लानात् । अयम्भावः-यथाऽसत्कल्पनया यदि मिथ्यात्वमोहनीयाख्यप्रकृतिरेव न स्यात्तदाऽनन्तानुबन्ध्याधुत्तरप्रकृत्यपेक्षया मोहनीयस्योत्कृष्टोऽप्यौधिकस्थितिबन्धश्चत्वारिंशत्सागरोपमकोटिकोट्य एव स्यात् , ज्ञानावरणादेस्तु त्रिंशत्सागरोपमकाटीकोट्यादिरेव, तथा चोरत एव ज्ञानावरणापेक्षया मोहनीयोत्कृष्टस्थितिबन्धो विशेषाधिकः, स चोपरितनगुणस्थानेषु संक्लेशहान्या हीयमानोऽपि श्रेणिं विहाय यथोतं विशेषाधिकत्वरूपं मिथस्तारतम्यं नातिक्रमेत । कुतः ? सास्वादनादिगुणस्थानेषु चत्वारिंशत्सागरोपमकोटिकोटयौधिकोत्कृष्टस्थितिकानामप्रत्याख्यानावरणादिकषायाणां मतिज्ञानावरणादेश्च बन्धभावात् , मिथ्यात्वस्य त्वबन्धात् । एवमेव सास्वादनादिगुणस्थानेषु स्वरूपतो एव मिथ्यात्वमोहनीयबन्धाभावेन ज्ञानावरणाद्यपेक्षया मोहनीयोत्कृष्टस्थितिबन्धो विशेषाधिकः प्राप्यते, नत्वसत्कल्पनया, मिथ्यात्वगुणस्थाने तु यथोक्तासत्कल्पनयैव विशेषाधिकः, स्वरूपतस्तु संख्येयगुण एव । प्रकृते त्वनुत्तरविमानवासिनां मिथ्यात्वाख्यमोहनीयोत्तरप्रकृतेबन्धाभावेन चत्वारिंशत्सागरोपमकोटोकोटयोघोत्कृष्टस्थितिकबध्यमानाऽप्रत्याख्यानावरणाद्युत्तरप्रकृत्यपेक्षया मोहनीयस्याऽन्तःकोटीकोटीसागरोपमप्रमाणोऽपि स्थितिवन्धो ज्ञानावरणस्योत्कृष्टस्थितिबन्धापेक्षया विशेषाधिक एवं प्राप्यते, ज्ञानावरणस्यैकैकोत्तरप्रकृतेरुत्कृष्टस्थितिबन्धस्य त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् , तासां प्रत्येकमनुत्तरविमानवासिनां बन्धभावाच्च ।
यदि च स्यादेवम्-मूलज्ञानावरणकर्मणः पञ्चसूत्तरप्रकृतिषु केवलज्ञानवरणस्योघोत्कृष्टस्थितिबन्धस्त्रिंशत्कोटीकोटीसागरोपमाणि, मिथ्यात्वगुणस्थान एव तद्वन्धश्च, शेषाणां मतिज्ञानावरणादीनां तूत्कृष्टाऽप्यौधिकीस्थितिर्विशतिसागरोपमकोटीकोट्यः, तासां तूपरितनगुणस्थानेष्वपि बन्धस्तदाऽनुत्तरवासिनां देवानां सम्यग्दृष्टितया मिथ्यात्वस्येव केवलज्ञानावरणस्याऽपि बन्धाभावात् शेषाणां तु ज्ञानावरणोत्तरप्रकृतीनां विंशतिसागरोपमकोटीकोटीस्थितिकत्वात् कषायमोहनीयाऽपेक्षया जायमानोऽपि मोहनीयोत्कृष्टस्थितिबन्धः सम्यग्दृष्टिगुणस्थाने वध्यमानज्ञानावरणानां जायमानोस्कृष्टस्थितिबन्धापेक्षया द्विगुणः स्यात् , न पुनः विशेषाधिकः । किन्तु नास्त्येवम् , यतो ज्ञानावरणस्य पश्चानामप्युत्तरप्रकृतीनामोधोत्कृष्टस्थितिबन्धस्त्रिंशत्सागरोपमकोटीकोट्य एव भवति, ताश्च प्रकृतयो ध्रुवबन्धिन्यः सत्य उपरितनगुणस्थानेष्वपि बध्यन्ते, इत्थं मूलोक्तमेवाल्पबहुत्वं प्राप्यत इति दिक् । अनया दिशा पूर्वोत्तरत्र च विभावनीयमल्पबहुत्वं स्वधिया । विशेषार्थिना तूत्तरप्रकृतिस्थितिबन्धविधानग्रन्थोऽवलोकनीय इति ॥४८३-४८४-४८५॥
आहारदुगम्मि तहा चउणाण-जईसु समइए छेए । परिहारे देस-अवहि-सम्म-खइअ-वेअगेसु च ॥४८६॥ सासायणे य आउस्सऽप्पो तो वीसगाण संखगुणो। तो तीसगाण तत्तो मोहस्स कमा विसेसहियो ॥४८७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org