SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४०४ ___ बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वष्टमूलप्रकृतीनां परस्थाने चानन्तरोक्तस्थितिबन्धापेक्षया विशेषाधिकत्वमिति स्वयमेव द्रष्टव्यमिति । “तत्तो मोहस्त संखगुणो" त्ति ततः'-त्रिंशत्कानां ज्ञानावरणादीनां चतुर्णा प्रत्येकमुत्कृष्टस्थितिबन्धात् 'मोहस्य'मोहनीयकर्मणः संख्येयगुणः । अत्राऽप्युत्कृष्टस्थितिबन्ध इत्यनुवर्तत इति । भावना तु सुगमा; प्रागुक्तोस्कृष्टस्थितिबन्धप्रमाणानुसारेण स्वयमेव कर्तव्येति ॥४८२।। . उक्तमोघत उत्कृष्टपदमधिकृत्य मूलकर्मणां परस्थानस्थितिबन्धाल्पबहुत्वम् । अथ तदेवादेशतो दर्शयमाह सब्वेसुणिरया-ऽमर-एगिदिय-विगल-पंचकायेसु। असमत्तपणिदितिरिय-मणुस-पणिंदिय-तसेच्च ॥४८३॥ विउवे उरालमीसे अमणे आउस्स होइ सबऽप्पो। एआउ वीसगाणं असंखियगुणो मुणेयव्वो ॥४८४॥ तो तीसगाण अहियो ताओ मोहस्स होइ संखगुणो। णवरि पणणुत्तरेसु मोहस्स भवे विसेसहियो ॥४८५॥ (प्रे०) “सव्वेसु" इत्यादि, अक्षरार्थस्तु प्राग्वत्सुगमः । गाथात्रयपिण्डार्थस्त्वेवम्सर्वनिरयगतिभेद-सर्वदेवगतिभेद-सर्वैकेन्द्रियभेद-सर्वविकलेन्द्रियभेद-सर्वपृथिव्यादिवनस्पत्यन्तपञ्चकायसत्कभेदा-ऽपर्याप्तपञ्चेन्द्रियतिर्यग-ऽपर्याप्तमनुष्या-पर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकाय--वैक्रियकाययोगौ-दारिकमिश्रकाययोगा-ऽसंज्ञिमार्गणाभेदरूपेषु शतमार्गणासु प्रत्येकमायुष उत्कृष्टस्थितिबन्धः सर्वाल्पः, तस्माद्विंशतिकोटीकोटीसागरोपमस्थितिकयो मगोत्रकर्मणोरसंख्यातगुणः, ततरित्रशत्कोटीकोटीसागरोपमस्थितिकानां ज्ञानावरण--दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां विशेषाधिकः, ततो मोहनीयस्योत्कष्टस्थितिबन्धः संख्यातगुणो भवति, नवरमयमत्रापवादः-देवगतिसत्केषु पञ्चानुत्तरविमानभेदेषु चरमपदे मोहनीयोत्कष्टस्थितिबन्धः संख्यातगुणो न भवति, किन्तु विशेषाधिक एव भवति, अतस्तथैव वाच्यः । कुतः संख्यातगुणो न भवति ? तत्र मिथ्यात्वमोहनीयप्रकृतेरबन्धात् । इदमुक्तं भवति-मूलप्रकृत्युत्कृष्टादिस्थितिबन्धमानमधिकतमस्थितिकतया बन्धप्रायोग्योत्तरप्रकृतिबन्धाधीनम् । अत एव मोहनीयस्यौधिकोत्कृष्टस्थितिबन्धमान सप्ततिसागरोपमकोटीकोटयः । एवं ज्ञानावरणादीनां मूलकर्मणां त्रिंशत्कोटीकोटीसागरोपमादिकं च । तत्र मोहनीयस्योत्कृष्टस्थितिबन्धो यः सप्ततिसागरोपमकोटीकोटयः स ओघतो बन्धप्रायोग्यमिथ्यात्वमोहनीयापेक्षया, एवमेव ज्ञानावरणादीनामपि यथासम्भवं मतिज्ञानावरणाद्यपेक्षया । अत एवौघवदेकेन्द्रियादिमार्गणाभेदेष्वपि ज्ञानावरणाद्यपेक्षया मोहनीयोत्कृष्टस्थितिवन्धः संख्येयगुण उक्तः, तथैव तेषां ज्ञानावरणस्य जघन्य. स्थितिबन्धापेक्षया मोहनीयजघन्यस्थितिबन्धः संख्येयगुण उक्तः, न पुनरनुत्तरविमानभेदादौ, तत्र मिथ्यात्वमोहनीयस्य बन्धाभावेन बन्धप्रायोग्याऽप्रत्याख्यानावरणकषायाद्यपेक्षया मूलप्रकृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy